________________
१३२
शिरपरत्ने चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः । किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ ४१ ॥
अथ केशवाद्याः -
सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः । काश्मीरमेघा जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः
[ ॥ ४२ ॥ इतीरिताश्वापकिरीटहार केयूरपीताम्बर कादितुल्यम् । सचक्रशङ्खाः सगदाम्बुजाश्च संपूजनीयाः स्तवनैः क्रमेण [ ॥ ४३ ॥
बराहभेदः
--
हेमप्रख्यं पार्थिवे मण्डले वा नीहाराभं नीरजेऽस्तदाभम् ।
वायोः कृष्णं धुप्रभं वा दिविस्थं क्रोडव्याप्तं सत्यसंस्थं यजेद्वा ॥ ४४ ॥
विश्वरूपं
विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्र केयूरहारग्रैवेयोर्म्यादिमुख्याभरणमणिगणोल्लासदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्यद्
बाह्रग्रव्यग्रनानायुधनिकरधरं विश्वरूपं नमामि ॥४५॥
अथायुधानि -
[ उत्तरभागः
चक्रं च चक्राङ्किकिरीटमौलिं सचक्रशखं सगदं सशार्ङ्गम् ।
रक्ताम्बरं रक्ततनुं करालं
दंष्ट्राननं प्राग्दलकेऽर्चयेत ॥ ४६ ॥