SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२८ शिल्परत्ने . उत्तरभाग पुरुषसूक्तम्गोक्षीराभं पुण्डरीकासनस्थं चक्राब्जाभ्यां शङ्खकौमोदकीभ्याम् । श्रीभूमिभ्यामर्चितं योगिचिन्त्यं __ध्यात्वा देवं पूजयेत् पौरुषाख्यम् ॥ २२ ॥ लक्ष्मीनारायणम् - हस्ते बिभ्रत् सरसिजगदाशङ्खचक्राणि विद्या __पद्मादी कनककलशं मेघविद्युडिलासम् । वामोत्तुङ्गस्तनमविरलाकल्पमाश्लेषलोभा देकीभूतं वपुरवतु वः पुण्डरीकाक्षलक्ष्म्योः ॥ २३ ॥ द्वाविंशत्यक्षरी-- वेणुं वेदमयं कणन् प्रदिशतु श्रेयांसि भूयांसि मे पाणिद्वन्द्वसरोजयोर्जपपटी वेदं दधानो हरिः । वाणीवेषविचित्रवेषविलसदेहस्त्वया सेव्यता मज्ञानाख्यतमोविदारणपटुः सर्वार्थदः सन्ततम्॥२४॥ विंशत्यक्षरी-- श्रीमत्या द्वारवत्यां नवकनकमये भूतले रत्ननद्यो- . __ मध्ये कल्पगुमाधो विलसदमलसन्मण्डपे सन्निविष्टम् । चक्र शङ्ख च वेणुं नलिनमपि गदा योगमुद्रां दधानं वन्दे संसिच्यमानं मणिमयकलशैवल्लभाभिर्मुकुन्दम् [॥ २५ ॥ तद्भेदः - मध्ये रत्नस्रवन्त्योर्मणिमयरचिते मण्डपे कल्पमूले भास्वद्रत्नासनाम्भोरुहकुहरगतं सद्गदाब्जारिशङ्खम् । १. 'दिव्यं पू' क. ग. पाठः, २. विधमणिल', ३. 'चिन्त्यमा' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy