________________
प्रासादभेदः] पोडशोऽध्यायः ।
रतिवर्धनमित्येवं चतुर्विंशतिकं स्मृतम् । तेषामेव विमानानां तथाष्टौ वैश्यशूद्रयोः ॥ १.३ ॥ विशालालयसंज्ञं च चतुष्फाटिकमेव च।। तुरङ्गवदनं तद्वद् गणिकापिण्डिकं तथा ॥ १.४ ॥ श्येनच्छन्दं चोत्पलाग्रं ततः कुक्कुटपुच्छकम् । इत्यष्टौ जातिहाणि वासार्थ वैश्यशूद्रयोः ॥ १०५ ।। एतेषां तु विमानानां भेदाः संस्थानभेदतः। शिखरस्य तु भेदेन सर्वेषां भेदमुद्दिशेत् ॥ १०६ ॥ यथार्ह तु यथाशोभं सर्वमन्यत् समं स्मृतम् । एभिरेवाप्यलङ्कारैः स्यात् कनिष्ठाल्पकेष्वपि ॥ १०७ ॥ नामान्यपि च तान्याहुस्तत्तन्मण्डनभेदतः।
अथ पद्मप्रासादः। पद्मगेहस्य वैशेष्यं शिवच्छन्दं चन्द्रकान्तकम् ॥ १०८॥ ललितकान्ताभिधानं च कुड्यावर्त चतुष्टयम् । एवं शिवस्य विषये वैष्णवे प्रवदाम्यतः ।। १०९ ।। अम्भोजालयवैशेष्यं श्रीकान्तं श्रीकर ततः । विष्णुच्छन्दाभिधानं च तथैवोत्पलपत्रकम् ॥ ११० ॥ अम्भोजचरणाख्यं च तथा कौमारमन्दिरे । वृत्तभद्रं गोत्रकान्तं विनशे जयमङ्गलम् ॥ १११॥ शास्तुम्नि द्विकूटाख्यमार्यायास्त्रितयं विदुः। सौभद्रं च विशालं स्यात् प्रेक्षागृहमतः परम् ॥ ११ ॥