________________
८८
शिल्परले
पूर्वभागः हसच्छन्दं पद्मकान्तं गरुडच्छन्दमेव च। भोगिच्छन्दं पद्मभद्रं ततः कैलासकान्तकम् ॥ ९२ ॥ भद्रशिखं रुद्रकान्तं योगभद्रं च मङ्गलम् । विन्ध्यच्छन्दं मेरुकूट महेन्द्रं चित्रकूटकम् ॥ ९ ॥ श्वीमण्डनं च सौमुख्यं नीलं निषधसंज्ञकम् । ततो ललितकान्ताख्यं विजयश्रीकरं तथा ॥ १४ ॥ श्रीविशालं च कथितं तथैव जयमङ्गलम् । जातीतराणि द्वात्रिंशद्विमानानीरितानि तु ॥ ९५॥ अथ जातिविमानानि द्वादशैव द्विजन्मनाम् । नागभोगावयछन्दे कुड्यावर्त त्रिकूटकम् ॥ ९६ ॥ श्रीवर्धनं पद्मगृहं प्रेक्षागृहं मुखं तथा । अत्यन्तभानुचन्द्राणां कान्तानि ऋतुवर्धनम् ॥ ९ ॥ वृत्तं च द्वादशैतानि विमानानि द्विजन्मनाम् । राज्ञां संकृतिसङ्ख्यानि कथितानि मुनीश्वरैः ॥ ९८ ॥ चतुष्कूटं मन्त्रपूतमावन्त्यं माहिषं तथा । तत्र कान्तं कर्णभद्रं विजयाङ्गं विशालकम् ॥ ९९ ॥ विशालभद्रं गणिकाविशालं कर्णशालकम् । पद्मासनं चेन्द्रकान्तं स्यात् सर्वलितं ततः॥ १० ॥ योगप्रत्ययकान्ताख्ये ततश्चोत्पलपत्रकम् । महाराजाह्वयच्छन्दं महागृहमतः परम् ॥ १०१ ॥ पृथिवीविजयं चाथ भवेन्नन्दिविशालकम् । सर्वाङ्गदर्शनं चापिच्छायागृहमतः परम् ॥ १०२॥