SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ महाप्रासादभेदाः] षोडशोऽध्यायः । ८७ त्रयस्त्रिंशत्सुराणां च यक्षनागेन्द्रवेधसाम् । . एकादशतलं शस्तं दिक्तलं शंशिसूर्ययोः ॥ ८२ ॥ महाराजाधिराजानां विमानं नवभूमिकम् । अष्टभौमं तु गन्धर्वसिद्धविद्याधरोचितम् ॥ ८३ ॥ सप्तभौमं द्विजेन्द्राणां नृपाणां च समृद्धिदम् । षड्भौमं मण्डलेन्द्राणां युवराजेषु भूमिकम् ॥ ८४ ॥ सामन्तानां चतुर्भीमं पुरेशानां च शस्यते । श्रीमतां वैश्यशूद्राणां सेनेशानां त्रिभौमिकम् ॥ ८५ ॥ द्वितलं चैकभौमं च सर्वदेवनरोचितम् । हीनानां नाधिकोक्तं स्यादिति प्राह पराशरः ॥ ८६ ॥ अथ महाप्रासादभेदाः। भूतेशब्रह्मविष्णूनां मुख्यं मुख्यास्तु विंशतिः । नलिनं च प्रलीनं च स्वस्तिकं च चतुर्मुखम् ॥ ८७ ॥ ततः स्यात् सर्वतोभद्रं हस्तिपृष्ठं समुज्ज्वलम्। श्रीछन्दं वृत्तभद्रं च श्रीकान्तं श्रीप्रतिष्ठितम् ॥ ८८॥ शिवभद्रं शिवच्छन्दमष्टाङ्गं पर्वताकृति। विष्णुच्छन्दं च सौभद्रं छन्दे कैलासरुद्रके ॥ ८९ ॥ ततो ललितभद्राख्यं विमानं चेति विंशतिः। जातीतराणि द्वात्रिंशदथ सर्वदिवौकसाम् ॥ ९॥. मेरुमन्दरकैलासौ जयाङ्गविमलाकृति । कुम्भाख्यं विमलाङ्गं च वृषच्छन्द सुदर्शनम् ॥९१ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy