SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ शिल्परले [पूर्वभागः वस्वनं वा पडकं वा तदपि द्राविडं स्मृतम् । एवं त्रिविधनीत्या तु प्रोच्यते' द्राविडालयम् ॥ ७ ॥ वेसरे कूटकोष्ठानि नीप्रं स्यान्मानसूत्रगम् । वृत्ताकारशिरोपेतं कर्णकूटं प्रकल्पयेत् ॥ ७३ ॥ वृत्तं गजगृहाकारं बाह्यवृत्ताभ्रमेव वा । वृत्तग्रीवशिरोपेतं यथेष्टशिखरेण वा ॥ ७४॥ सालिन्द्रं वा सभद्रं वाप्येकेनैकतलं तु वा । समाश्रमायताओं वा वृत्तं वृत्तायतं तु वा ॥ ७५ ॥ यश्रवृत्तं तु वा हयं कूटकोष्ठादिसंयुतम् । उन्नतोपानकोपेतौ कूटकोष्ठौ यथाक्रमम् ॥ ७६ ॥ समौ तु कूटकोष्ठौ तु बहलं तत्समं तु वा। . वेसरं भवनं ख्यातमेवं वा तत्रयं भवेत् ॥ ७७ ॥ विम्बं च पीठिकां चैव प्रासादं चैकजातिकम् । करोतु सर्वसम्पत्यै नृपराष्ट्रजनस्य तु ॥ ७८ ।। विपरीतं विपत्त्यर्थ राजराष्ट्रभयङ्करम् । नागरे सकलं शान्तं वेसरे यानमूर्तिकम् ॥ ७९ ॥ भेवीरं च नृत्तं च द्राविडे भवने न्यसेत् । अन्यथा चेद् विपत्त्यै च कर्तुतस्तथैव च ॥ ८० ॥ . अथ प्रासादनियमः। ब्रह्मविष्णुशिवानां चाप्युत्तमं चक्रवर्तिनाम् । शस्तं द्वादशभौमं स्यान्नान्येषां तद् विधीयते ॥ ८१ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy