________________
नगरादिविधि: ]
षोडशोऽध्यायः ।
उन्नता शालकोपाना सौष्ठिकौ च यथाक्रमम् ।
उन्नतं स्वान्तरं मञ्चमन्तन् (?) प्रस्तरहीनकम् ॥ ६१ ॥ चतुरष्टाश्रवृत्ताभं कूटं कुर्यात् तले तले । ना (सा) मसूरकस्तम्भतोरणैश्च समन्वितम् ॥ ६२ ॥ वृत्तायस्फुटिकैर्हस्तितुण्डैः कुम्भलतादिभिः । हारान्तरेषु मध्योर्ध्वे क्षुद्रकोष्ठयुतं तु वा ॥ ६३ ॥ तत्रैव हस्तितुण्डं वा भद्रनास्यल्पनासि वा । निरन्तरं सान्तरं वा ह्येकानेक (त)लं तु वा ॥ ६४ ॥ शिरसो वर्तनं कर्णे वृत्तं वाष्टाश्रमेव वा । इत्येतैर्लक्षणैर्युक्तं विमानं द्राविडं भवेत् ॥ ६५ ॥ तदेव चरणाकारावेकाकारेण कल्पयेत् । हारान्तरे विशेषेण स्युर्वृत्तस्फुटिकादयः ॥ ६६ ॥ समानौ कूटकोष्ठौ द्वौ सान्तरप्रस्तरान्वितौ । हीनौ वान्तरमञ्चौ तौ नीपं वा समसूत्रकौ ॥ ६७ ॥ स्तम्भान्तरेषु कर्तव्यं भद्रं वा भद्रपञ्जरम् । कपोतपञ्जराढ्यं वा सान्तरप्रस्तरान्वितम् ॥ ६८ ॥ अन्या वान्तरमञ्चौ तौ नीप्रं च समसूत्रकौ । हारान्तरेषु कर्तव्यं सर्वेषां कर्णकूटकम् ॥ ६९ ॥ सर्वेषां कर्णकूटानां शीर्षकं तु युगाश्रकम् । वस्व (क) शिरोपेतं वर्तुलं वा शिरोगलम् ॥ ७० ॥ aa वा शिरःकर्णे युगाश्रं वा प्रकल्पयेत् । एवं वा द्राविडं ख्यातं होमादाकुन्तलं ततः ॥ ७१ ॥
८५