SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८४ शिल्परले मूलादाशिखरं युगाश्ररचितं गेहं स्मृतं नागरं मूलादाशिखरकियं षडुरगाश्रोदितं द्राविडम् | मूलाद् वा गलतोऽथवा परिलसद्वृत्तात्मकं वेसरं तेष्वेकं पृथगात्तलक्ष्म सुविदध्यादात्मनः सम्मतम् ॥ ५१ ॥ [ पूर्वभाग: जन्मादिस्तु पिपर्यन्तं युगाश्रं नागरं भवेत् । वस्वश्रं शीर्षकं कर्णे द्राविडं भवनं विदुः ॥ ५२ ॥ वृत्तकर्णशिरोपेतं वेसरं हर्म्यमीरितम् । कूटकोष्ठादिहीनानां हर्म्याणां कथितं त्विदम् ॥ ५३ ॥ नानाधिष्ठानसंयुक्तं तलं प्रत्यङ्घ्रिभेदवत् । सर्वत्र वृत्तपादं वा वेसरे भवने कुरु ॥ ५४ ॥ कूटकोष्ठादिनिष्क्रान्तमृजुसूत्रे तु सम्मितम् । उन्नतोपान कोपेताः कूटकोष्ठा यथाक्रमम् ॥ ५५ ॥ एकाकारं तलं स्तम्भं पत्रतोरणसंयुतम् । क्षुद्रकोष्ठसमायुक्तं महानास्यवकाशके ॥ ५६ ॥ वेदिकाजालकोपेतं कूटं वेदाश्रशीर्षकम् । एकानेकलं वापि सालिन्द्रं वा व्यलिन्दकम् ॥ ५७ ॥ वेदाचं शीर्षकं कण्ठं शालाकारमथापि वा । नागरं भवनं ख्यातं तदेशेषु प्रकल्पयेत् ॥ ५८ ॥ प्राग्वत् कूटादिनिष्क्रान्तं कारयेद् वाथवा पुनः । मानसूत्राद् बहिः कूटनीनं कूटात् तु कोष्टकम् ॥ ५९ ॥ मध्ये कोष्ठं सभद्रं वा विभद्रं वा नियोजितम् । पञ्जरं मानसूत्रे वा कूटनिष्क्रान्तसादृशम् ॥ ६० ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy