SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नागरादिविधिः ] षोडशोऽध्यायः । प्रासादः सर्वदेवेषु सन्देश (?) मधुनोच्यते । सात्त्विकं नागरं तत् स्याद् राजसं द्राविडं स्मृतम् ॥ तामसं बेसरं चेति त्रयं ब्रह्मादिदैवतम् । त्रियुगं तत् त्रिवर्णे च त्रिचक्रं च क्रमात् स्मृतम् ॥ ४२ ॥ नागरस्य स्मृतो देशो हिमवद्विन्ध्यमध्यगः । द्राविडस्योचितो देशो द्राविडः स्यान्न चान्यथा ॥ ४३ ॥ आगस्त्यविन्ध्यमध्यस्थो देशो वेसरसम्मतः । सर्वाणि सर्वदेशेषु भवन्तीत्यपि केचन ॥ ४४ ॥ अन्यथा ८३ - हिमाद्रिकन्ययोरन्तर्गतो देश उदाहृतः । सोऽपि देशस्त्रिधा भिन्नस्तत्तद्देशभवैर्गुणैः ॥ ४५ ॥ यथैव देहिनां देहं वातपित्तकफात्मकम् । तथैवेदं जगत सर्व विज्ञेयं त्रिगुणात्मकम् ॥ ४६ ॥ हिमवद्दिन्ध्ययोर्मध्यं सात्त्विकं भूतलं स्मृतम् । विन्ध्यशैलादिकृष्णान्तं राजसं परिकीर्तितम् ॥ ४७ ॥ पुनः कृष्णादिकन्यान्तं तामसं भूतलं भवेत् । नागरं सात्त्विके देशे राजसे द्राविडं भवेत् ॥ ४८ ॥ वेसर तामसे देशे क्रमेण परिकीर्तिताः । विष्णुर्वेधाः शिवः साक्षात् क्रमात् तद्धामदेवताः ॥ ४९ ॥ नागरं भूसुरो जात्या वेसरं वेश्य उच्यते । द्राविडं तु नृपो ज्ञेय आकृतिः कथ्यतेऽधुना ॥ ५० ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy