________________
शिल्परले
एते पञ्चदश प्रोक्ता वृत्ताकाराः सुरालयाः । अथो गृहलुपाकूटा अधः पद्मसमायुताः ॥ ११३ ॥ तेषां पृथक् पृथक् सन्ति भूषणादीन्यनेकधा ।
अथ प्रासादभेदः ।
प्रासादं पुरुषं मत्वा पूजयेन्मन्त्रवित्तमः ॥ ११४ ॥ कायश्चाप्यनुकायश्च प्रासादाङ्गं द्विधा स्मृतम् । अधिष्ठानं तथा स्तम्भो भित्तिः कुम्भश्च मण्डिका ॥ ११५ ॥ पोतिका स्याद् भारतुला जयन्तय इति क्रमात् । अनुमार्गाश्च कायः स्यादनुकायोऽथ कथ्यते ॥ ११६ ॥ उत्तरं वाजनश्रेणी वलिकं कर्णपट्टिका । सन्धिद्वारकवाटानि योगः प्रच्छादनानि च ॥ ११७ ॥ कुम्भवही तोरणानि मुष्टिबन्धाष्टमङ्गलम् । मृणालिका दण्डिका च नीप्रभाराच नासिकाः ॥ ११८ ॥ पट्टिका वलभिर्बन्धवेदिका जालकानि च । कर्णकूटं तथाकूटनीडं कोष्ठादयोऽपि च ॥ ११९ ॥ ऊर्ध्वप्रच्छादविन्याससुधालोष्टेष्टकादयः । अनुकायाभिधानानि सामान्येन भवन्ति हि ॥ १२० ॥
[पूर्वभागः
अथवा
प्रपदं पादुकं विद्याच्छिखा स्तूपीति कथ्यते । लोहकीलकपत्रादि सर्वे दन्तनखादिकम् ॥ १२१ ॥ सुधा शुक्लं त्विष्टकौघमस्थि मज्जा च पीतरुक् । मेदः श्यामरुचिस्तद्वद् रक्तं रक्तरुचिस्तथा ॥ १२२ ॥
Ma