SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पादाधिष्ठानविभागः सप्तदशोऽध्यायः । मांस मेचकवर्ण स्याञ्चर्म नीलं न संशयः। त्वक् कृष्णवर्णमित्याहुः प्रासादे सप्तधातवः ॥ १२३ ।। इति शिल्परने प्रासादलक्षणं नाम षोडशोऽध्यायः । अथ सप्तदशोऽध्यायः। अथ पादाधिष्ठानविभागः। अधिष्ठानोच्छ्रयं पूर्व हस्तमानेन वर्ण्यते । प्रासादस्तु निजैरङ्गैरधितिष्ठति यं सदा ॥१॥ दृढं शिलादिघटितं तदधिष्ठानसंज्ञितम् । तैतिलानां चतुर्हस्तं त्रिहस्तार्ध द्विजन्मनाम् ॥ २ ॥ राज्ञां त्रिहस्तं सार्धद्विहस्तं चेत् + व राजकम् । द्विहस्तमेव वणिजां शूद्रस्यैककरं स्मृतम् ॥ ३ ॥ एवं जातिवशाद् भूमिवशादत्रैव कथ्यते । चतुष्करात् तु षण्मात्रहीनेनार्कतलात् क्रमात् ॥ ४ ॥ त्रितलस्योत्तमस्येष्टं पादेनोनद्विहस्तकम् । क्षुद्राणामुदयं नीत्वा विधातव्यं विचक्षणैः ॥ ५॥ मसूरकोन्नतं पञ्चहस्ते द्वात्रिंशदङ्गुलम् । त्रिंशदङ्गुलमुच्चं वा तस्यैव च पुनस्तथा ॥ ६॥ षडादीनां तु पञ्चानामेकत्रिंशतिमात्रकम् । एकादशेऽथ द्वात्रिंशद् द्विव्यङ्गुलविवर्धनात् ॥ ७ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy