SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने पूर्वभागः अष्टत्रिंशतिमात्रोच्चं चतुर्दशविशालिनः । नवत्रिंशतिमात्रोच्चं चतुर्दशपरस्य च ॥ ८ ॥ त्रिचतुर्हस्तयोर्धाम्नोर्हस्तमेवेति निश्चितम् । इत्येवं क्षुद्रहाणामधिष्ठानोच्छ्रयक्रमः ॥ ९ ॥ आत्तोत्सेधांशमानेनाप्यधिष्ठानोच्छ्यं विदुः । कैश्वत् तेन प्रकारेण विधातव्यं विचक्षणैः ॥ १० ॥ तत्तत्पादोदयार्धेन तुल्यमानं करोति तम् । गेहे त्रिदोर्वर्गभवे द्विदोमितान् ___ स्तम्भांस्ततोऽब्ध्यङ्गुलवर्धितान क्रमात् । चतुष्कराद्युत्तरवर्गजेष्टकान् ___ करोत्वधिष्ठानमतोऽर्धसम्मितम् ॥ ११ ॥ अङ्गाद्यैरुदयोत्तरान्तरगतोन्मानं विभज्य क्रमात् .. संख्यानैः शिवपश्चिमैर्निगदिते स्तम्भोच्छ्ये स्वेच्छया । अंशं योजयतु कचित् त्यजतु वा मासूरके स्वोच्छ्रयं भवाङ्गादिनवान्तिमविरहयेद् द्वारं यथोक्तोच्छ्यात् ॥ अथाष्टहस्तात् पादोच्चद्वादशक्ष्मात्कमात् पुनः । तत्तद्वितस्तिहीनेन त्रिकरं च त्रिभूमिके ॥ १३ ॥ आत्ताधिष्ठानतुङ्गस्य द्विगुणं पादतुङ्गकम् । द्विगुणान्नाधिकोत्सेधः स्तम्भः प्रोक्तः स्वयम्भुवा ॥१४॥ ___ अथ सामान्यविधिः। उत्तरोपानयोर्मध्यं पादमानमिति स्मृतम् । विकरायगुलीषटकं वर्धमानं ततस्ततः ॥१५॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy