SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ उपपीठोन्नतिः] सप्तदशोऽध्यायः। यथाशोभं यथायोग्यं पादमानं करोतु वा । विस्तारेण समं पादमानमित्युच्यते बुधैः ॥ १६ ॥ विस्तारस्य चतुर्थांशयुतं वा वियुतं तु वा । षट्सप्ताष्टाङ्कभागेन युतं वा हीनमेव वा ॥ १७ ॥ भक्तेऽस्मिन् पादमाने त्रिचतुरिषुषडंशैरधिष्ठानमंशे नाष्टाभिः सप्तभिर्वा विकृतिविदलिते विश्वभक्ते चतुर्भिः। धृत्यंशे पञ्चभिर्वा तिथियुगलहते वाष्टिभिः सप्तभक्ते द्वाभ्यां वार्कद्वयांशे मुनिभिरपि दशांशैस्त्रयस्त्रिंशदशे॥ सप्ताष्टनवभिर्भक्ते तस्मिन्नाद्यङ्गमंशतः। पञ्चांशैर्वाथ कर्तव्यमतिधृत्यशिते तथा ॥ २० ॥ द्वादशांशे तु पञ्चांश चतुर्विशांशिते तथा । एवं बहुविधं प्रोक्तं मासूरस्य समुन्नतम् ॥ २१ ॥ अथ तलान्तरपा + + + + + + + + + ॥२२॥ स्तम्भे प्राथमिकेऽनलादिशिवनिष्ठरंशितेऽशैःक्रमा न्नेत्राग्नित्रिगुणेषुशैलशरनागाङ्कोन्मितैः सम्मितौ। ग्रीवोक्ता नवधा ततोऽपि तलक्लप्तौ पूर्वपूर्वाघ्रितः प्रोन्नेया च तदुन्नतिःप्रतितलं स्यात् प्रस्तरप्रक्रिया॥ २३ ।। रुद्रांशे सुषिरा दशांशवसवो वेदत्रिसप्तेन्द्रिया दिक्सप्तत्रितयवयं तु विधिवत् पञ्चाग्निभागोन्मितम् । पञ्चाशासुषिरे समुज्ज्वलतराः स्तम्भाधतोऽपि क्रमा न्मूलस्तम्भसमुन्नतेस्तु नवधा ग्रीवा विमानाश्रया॥२४॥ ..
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy