________________
शिल्परत्ने
पूर्वभागः
अयोपपीठोन्नतिः । अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजितम् । रक्षार्थमुन्नतार्थ वा शोभार्थ च प्रकल्पयेत् ॥ २५॥ आद्यङ्गतुङ्गपञ्चांशत्रिगुणं वोपपीठकम् ।
अधिष्ठानत्रिगुणं वा स्यादुपपीठसमुच्छ्रयः ॥ २६ ॥ मासूराच्चे विभक्त शिखिविशिखकरैः क्षमेक्षणेन्द्रंशतोऽर्धाशोधं पादांशवृद्ध्या द्विगुणितचरमं योजयेद् वोपपीठम् । दिग्भक्त शैः शशाङ्कादिभिरिषुचरमैरेकसार्धद्विलोकैदण्डैर्वा निर्गतं चारचयतु विलसत्स्वाङ्गभङ्गयाभिरामम् ।।
जगते प्रतुल्यं वा धामस्तत्पादुकस्य वा । तन्नीप्रमुपपीठस्य पादबाह्यं प्रकल्पयेत् ॥ २८ ॥ अधिष्ठानपादुकात्तस्य विधिः सर्वोपपीठके । अथवा दण्डमारभ्य नवदण्डावसानकम् ॥ २९ ॥ सभादीनां विशेषेण कथ्यतेऽस्य विनिर्गमः। अथाभ्यन्तरपादेन भवेत् तदुपपीठकम् ॥ ३० ॥ मष्टभागकभागं वा सप्तभागैकभागिकम् । षड्भागैकांशकं वाथ निर्गतिः पूर्वमुक्तवत् ॥ ३१॥
____ अथाभ्यन्तरपादः । अथ पद्मम् । इष्टाधिष्ठानोच्छ्रयं संविभज्य संख्याभिः श्रुत्यादिनन्दान्तिमाभिः कुर्यादेकांशेन तूपानडन्ते पद्मं धामोत्सेधतोऽदोऽधिकं स्यात्।।
पद्मस्य तुङ्गे षड्भक्ते भागमूलेऽस्य पीठिका । अधश्छदं त्रिभागेन विभागेनोर्ध्वगच्छदम् ॥ ३३ ॥