SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रासादलक्षणम् ] षोडशोऽध्यायः । धाम्नो व्यासे शकरीहन्द्वभक्ते मित्रेन्द्रेमाशैः समस्तांशतश्च । विस्तृत्या संयुक्तया पादकादि स्तूप्यग्रान्तोऽप्युच्छ्रयं स्याच्चतुर्धा ॥ ४ ॥ अथवाल्पकनिष्ठानां व्यासे सप्तविभाजिते ॥ ५ ॥ षडंशाधिकमुच्चं स्यान्मध्यानां पञ्चकाधिकम् । व्यंशाधिकं चोत्तमानां प्रासादानामिहोन्नतिः ॥ ६ ॥ __ अथ शान्तिकादितुङ्गनियमः । तत्रादित्यतलं श्रेष्ठं शतहस्तोच्छ्रितं भवेत् । हस्तसप्ततिविस्तारं (सप्त?)त्रिभागाधिकमुच्छ्रयम् ॥ ७ ॥ तच्छान्तिकं देवविमानमुत्तममध्यर्धतुङ्गं त्वथ पौष्टिकाख्यम् । पादोनयुग्मं विजयस्य तुझं + + + + + + + + + + + ॥८॥ विस्तारतो द्विगुणि(तुङ्ग)तोन्नतमद्भुताख्यं विस्तारतुल्यमुदयं यदि सार्वकामिकम् । तारत्रिपादमुदयं पुनराभिचारं तत्त स्मृतं त्वशुभकर्मणि चाभिचारे ॥ ९ ॥ अथ महाप्रासादतुङ्गनियमः । तत्रादित्यतलं श्रेष्ठं शतहस्तोच्छ्रितं भवेत् । हस्तसप्ततिविस्तारं मुख्यजात्यापि च क्रमात् ॥ १० ॥ त्रिषष्टिहस्ततारं च त्रिनवत्युन्नतं तु यत् । उत्तमेन तु मानेन स्यादेकादशभूमिकम् ॥ ११ ॥ तथा चतुरशीत्युच्चं सप्तपञ्चाशता ततम् । दशभौमं स्मृतं धाम श्रेष्ठमानेन शोभनम् ॥ १२॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy