________________
शिल्परले
पूर्वभागः पञ्चसप्ततितुङ्गं यदेकपञ्चाशता ततम् । नवभौमं तु तन्मुख्यं यथायुक्ति नियोजितम् ॥ १३॥ उच्चं षडधिकं षष्टया चत्वारिंशच्च पञ्च च । कराणां विस्तृतं धाम भवेदष्टतलं शुभम् ॥ १४ ॥ सप्तपञ्चाशदुत्तुङ्गं त्रिंशता च (श)तेन च । कराणां विस्तृतं धाम सप्तभौमं प्रकीर्तितम् ॥ १५ ॥ त्रयस्त्रिंशत्करं व्यासं चत्वारिंशत्करैरपि । नन्दहस्तैश्च यत् तुझं षट्तलं तत् प्रकीर्तितम् ॥ १६ ॥ कराणां सप्तविंशत्या चत्वारिंशत्करैरपि । सैकैर्यद् विस्तृतं तुझं पञ्चभौमं तु तद् भवेत् ॥ १७ ॥ त्रिंशता चैकविंशत्या तुङ्गे व्यासे चतुस्तलम् । प्रकृत्या चातिशकों त्रिभौमं तुङ्गविस्तृतौ ॥ १८ ॥ एवं त्रितलमारभ्य यावद्वादशभूमिकम् । उत्तमानां प्रतितलं ह्रासयेद् द्विकरं क्रमात् ॥ १९ ॥ मध्यमानि विमानानि भवन्तीह दश क्रमात । तहन्मध्यविमानानां हासनं द्विकरं पृथक् ॥ २० ॥ कनिष्ठानि विमानानि भवन्त्याजगतीतलात् । अथवा युग्महस्तैस्तु विकारकरतः क्रमात् ॥ २१ ॥ सप्तत्यन्तं विमानानि जात्यादीनि भवन्ति हि। तान्यपि त्रितलादीनि भवन्त्यर्कतलान्तकम् ॥ २२ ॥ अत्यष्टिहस्तादारभ्य त्रिषष्टिककरात् तथा । छन्दानि पञ्चभौमादि भवन्त्यर्कतलान्तकम् ॥ २३ ॥