________________
७८ शिल्परले
[पूर्वभागः गुणकारो धनं राहोमन्त्रनिष्ठो विभाजकः । इत्यतैर्गुणहारस्तु त्रिन्ननाहाष्टमांशतः ॥५१॥ सूर्यादिराहुपर्यन्तग्रहाः कार्या गृहादिषु । ग्रहाणां गोचरादीनि तथा यो(गा)दिकानि च ।। ५२ ।। होराशास्त्रोक्तमार्गेण सम्यक् सञ्चिन्त्य बुद्धिमान् । दोषान् सर्वान् परित्यज्य गुणैर्युतान् परिग्रहेत् ॥ ५३ ।।
इति शिल्परले आयादिलक्षणं नाम
पञ्चदशोऽध्यायः ।
अथ षोडशोऽध्यायः।
___ अथ प्रासादलक्षणम् । देवादीनां नराणां च येषु रम्यतया चिरम् । मनांसि च प्रसीदन्ति प्रासादास्तेन कीर्तिताः ॥ १॥
नानामानविधानत्वाद् विमानं शास्त्रतः कृतम् । पादोनत्रिकरादिपञ्चदशहस्ताशाङ्गुलान्तोत्तरे
प्वष्टाष्टाङ्गुलवृद्धितोऽन्तरभवद्योनिप्रभेदेष्वथ । प्रत्यक्प्राग्वदनक्रमेण विहितेष्वल्पेषु वान्येषु वा
प्रासादेषु विशिष्टजातिषु निजेष्टं कारयेत् कारुभिः ॥२॥ प्रासादांश्च कराङ्गुलेन शुचिहस्तादेवमष्टामुलै
वड्या सौम्ययमाननाः कतम एव स्युमंगादे भजाः(?)। तेष्वेकं दशमात्रकोनतिथिहस्तान्तोश्च(?) वा कारयेत्
प्रोक्तं किष्कुमितं (वीतिह?) चरहतेषूहयेद् बुद्धिमान् ॥