________________
दशोऽध्यायः ।
आयादिलक्षणम् ] गुणयेदेकाम्बुधिभिः खानेन्दुकरैर्हरेत् कुजस्य तथा । सौम्यादीनां गुणनं नैव स्याकारकाः क्रमादेते ॥ ४१ ॥ खाकाशाम्बुधिभूताः शरशून्ययुगास्तथैव खाश्विभवाः । युगलमहीधररन्ध्राः खखाङ्गकाः शिल्पशास्त्रनिर्दिष्टाः ॥ ४२ ॥ एत एव कटपयादिभिः --
७७
रम्योऽर्कस्य गुणः स्यान्मुनिभग्नो हारको ज्ञेयः । वारश्चन्द्रस्य गुणो भवति विभाजको भवेत् पादः ॥ ४३ ॥
कस्त्वं गुणकारकः स्यान्नीचपरो भूमिजे हारः । सोमसुतादीनां को गुणकारो भवति सर्वेषाम् ॥ ४४ ॥ सौम्ये नानावाणी हारो जीवस्य मानाभः । आत्रेयोच्चस्य तथा भवति शनैश्चरस्य रसाळः ॥ ४५ ॥ राहोरानर्तः स्यादानीतव्या ग्रहा एवम् । विस्तारायतमानैरितीरितं शिल्पशास्त्रज्ञैः ॥ ४६ ॥
प्रकारान्तरेण -
खण्डेन गुणयेद् भानोर्मानवेन विभाजयेत् ॥ ४७ ॥ वृत्तेन गुणयेदिन्दोः कुजेन च विभाजयेत् । गुणः कुजस्य वृन्ताको नीवाराङ्गो विभाजकः ॥ ४८ ॥ किंगुणः सोमपुत्रस्य मन्त्रनिष्ठो विभाजकः । जीवस्य गुणयेद् दानैः शङ्करोऽयं विभाजकः ॥ ४९ ॥ भार्गवस्य गुणः शम्भुः मन्त्रनिष्ठो विभाजकः । मन्दस्य गुणयेत् प्राज्ञैर्धीरसेन विभाजयेत् ॥ ५० ॥