________________
शिल्परत्न
पूर्वभागः
जन्म सम्पद् विपत् क्षेमः प्रत्यरः साधको वधः। मैत्रं परममैत्रं च जन्मेत्याचं पुनः पुनः ॥ १३ ॥ कर्तुर्जन्मक्षमारभ्य गणयित्वा विचिन्तयेत् । सम्पत्साधकमैत्राणि क्षेमं परममैत्रकम् ॥ १४ ॥ जन्माख्यं च शुभानि स्युरशुभानीतराणि तु । जन्माष्टमं विनाशाय ऋक्षं तदपि वर्जयेत् ॥ १५ ॥ गण्डान्तप्रमुखान् दोषानपि सर्वान् विवर्जयेत् । बालत्वं कौमारं यौवनमथ वार्धकं च निधनं च ॥१६॥ पञ्च वयांस्येष्वन्त्यं नेष्टं शिष्टानि वास्तुनीष्टानि । मध्यमे बाल्यवार्धक्ये मरणं त्वधमाधमम् ।। १७ ॥ अनुत्तमे तु कौमारयौवने वेति केचन । नन्दा भद्रा जया रिक्ता पूर्णेति तिथयः क्रमात् ॥ १८ ॥ तत्र रिक्ता विवा स्यात् पूर्णा गेहेषु पूजिता। करणेषु स्थिरा निन्द्या विष्टयस्तु तथैव च ॥ १९ ॥ पापवारोदयास्त्याज्याः शुभवारोदयाः शुभाः । वारजानि करणानि गर्दभव्याघ्रविष्टिगजसूकराः क्रमात् । (सू?स्म)र्यते मृगपतिः पशुस्तथा तत्र विष्टिरहितानि सन्तु वै॥ एवमिन्द्रविधुवह्निराक्षसश्राद्धदेववृषवायुगा क्रमात् । . योगिनी भवति सूर्यवारतो निन्दिता (हि) प्रतिमाप्रतिग्रहे । ध्वजधूमसिंहकुक्कुरवृषखरगजवायसाः क्रमेण स्युः । प्रागादियोनयोऽष्टौ तेष्वयुजः संपदे युजो विपदे ॥ २२ ॥