________________
आयादिलक्षणम् ] पञ्चदशोऽध्यायः ।
अन्तर्मध्ये च सालानां बाह्ये वा मानसूत्रकम् । .. भित्त्यन्तर(स्य) मानेन मानयेत् सर्वधामसु ॥ ३ ॥ तथा बाह्येन मानेन भित्तिमध्येन वा पुनः । भित्तिमध्यं द्विजातीनां न(रे)न्द्राणां तथैव च ॥ ४॥ विशामपि च शूद्राणामन्तर्भागमिति स्मृतम् । बहिर्भागं तु देवानां मानसूत्रं बुधैरिदम् ॥ ५ ॥ मानसूत्रात् तु बाह्ये तु कूटकोष्ठादिनीप्रकम् । एतद् विन्याससूत्राख्यं ह्योमाबाह्यगतं पुनः ॥ ६ ॥ अवसानाभिधं सूत्रमेवं सूत्रत्रयं स्मृतम् । सभामण्डपशालानां भित्तिमध्यावसानकम् ॥ ७ ॥ भित्तिमध्याङ्घिबाह्ये तन्मध्ये वाभ्यन्तरेऽपि वा। भित्तिबाह्यगता स्तु बाह्य वाभ्यन्तरेऽपि वा ॥ ८ ॥ तदध्रिमध्यावधि वा मानसूत्रमुदाहृतम् । भित्तिव्यासे तु भान्वंशे बाह्ये धात्वंशकं व्रजेत् ॥ ९॥ अभ्यन्तरे युगांशं तु तच्छेषं विस्तृतं भवेत् । भित्तिमध्यगपादस्य पादस्थानेन संशयम् (2) ॥ १० ॥ नाहेऽष्टप्ने हृतेऽर्कत्रिधनतिथियुगैः सप्तभिः शेष आयो भान्यत्रावाप्तिरायुस्तिथिदिवसपती लोकनिमेऽथ नागैः । योनिः स्याच्छैलयुग्मैर्व्यय उदधिहते (गोर्कतो?) भागराशी तस्मिन्नक्षन(आयुश्शतभिरथ?) नवन्ने विप्रमुख्योऽब्धिभिः स्यात्
आयाधिक्यं व्ययतः संपाचं सर्वथान्यथापत्तिः। नक्षत्रादिशुभत्वं ज्योतिश्शास्त्रादिभिः सुविज्ञेयम् ॥ १२