SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने पूर्वभाग शुष्कचिश्चादिशाखामिरास्तीर्य सुमुहूर्तके। इन्धनानि च विन्यस्य पलालानि च विन्यसेत् ॥१४॥ तस्मिन् लोष्टानि विन्यस्य पलालैश्छादयेत् पुनः। पलालाभासकैः पश्चाद् ब्रीह्याभासैस्तुषैस्तथा ॥ १४७ ॥ आच्छाद्याहिरथासिञ्चेच्छाखाः प्रज्वालयेत् पुनः। उद्धृत्य ज्वलने शान्ते जले क्षिप्रवोद्धरेत् क्रमात् ॥ १४८ ॥ - अथ लोहाः । कीलशूलादिनिर्माणे लोहः कृष्णः प्रशस्यते । सुवर्ण रजतं तानं पूजितं लोष्टकर्मणि ॥ १४९ ।। कांस्यपित्तलकादीनि मध्यमानीरितानि हि । स्तूप्याच्छादनके सर्वमिष्टं कृष्णविवर्जितम् ॥ १५० ॥ वल्लीमुकुलपुष्पादिकरणे निखिलाः शुभाः । बिम्बपीठादिकरणे शस्तं वक्ष्यामि तद्विधौ ।। १५१ ॥ इति शिल्परने शिलादार्वादिसाधनलक्षणं नाम चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः। अथायादिलक्षणम् । अन्यत्र कूपादिभ्योऽथ बहियोनिः प्रकीर्तितः । गृहाणां भित्तिमध्ये तु शालानां तु तथा भवेत् ॥ १॥ प्रासादानां तु बाह्ये तु मध्ये वा शयनासने । पादबाह्ये पादमध्ये सभामण्डपयोर्मितिः ॥ २ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy