________________
मुल्लोष्टकरणम् ] चतुर्दशोऽध्यायः । कर्णयुग्मं तबहिष्ठं कूरे त्याज्यं तु पार्श्वयोः। यश्रव्यासेऽब्धिसम्भक्ते त्रीणि सूत्राणि पातयेत् ॥ १३५॥ मूलात् तारासिकं नीत्वा तिर्यक्सूत्रं च पातयेत् ।। तिर्यङ्मूलाग्रयोगेन पार्श्वस्थाग्रयुतं लिखेत् ॥ १३६ ॥ कर्ण तदनादारभ्य तिर्यमध्ययुतायुतम् । कर्णसूत्रं बहिर्भागं सर्वं यत्रे त्यजेदतः॥ १३७ ॥ एवं कृत्वा साधनानि मृत्स्नां संपाद्य बुद्धिमान् । भस्मनोडूलितं कृत्वा फलकामपि साधनम् ॥ १३८ ॥ मृतां प्रसारयेत् तस्यां यथोक्तं बहलं पुनः। लोष्टायामततां तत्र यथालाभाय तां पुनः ॥ १३९ ।। सन्ताड्य च समीकृत्य तस्यां विन्यस्थ साधनम् । तिर्यक् तदने कृत्वा च परितः शस्त्रधारया ॥ १४० ॥ छिन्द्यात् पार्धे च मूलं च सर्वत्रैवं विधिः स्मृतः। ईषच्छुष्कां तु चोदृत्य पश्चात् सन्ताडयत् खयम् ॥ १४१॥ ऊर्ध्वलोष्टं कोणलोष्टमन्तर्वकं तु कारयेत् । गर्तकोणं बहिर्भागवकं वाथ विवक्रकम् ॥ १४२ ॥ कोणपारावतं कुर्यात् स्तूप्याच्छादनकानि च । कालपाकेन शुष्काणां तेषां दाहं च कारयेत् ॥ १४३ ॥ अविद्यः सुलग्नादौ चुल्ली कृत्वेष्टकोक्तवत् । अथवान्यप्रकारेण तेषां दाहं च कारयेत् ॥ १४४ ॥ अविर्भे सुलमादौ चुल्ली कृत्वेष्टकोक्तवत् । । अथवान्यप्रकारेण लोष्टदाहो विधीयते ।। १४५ ॥ .