________________
शिल्परने
[पूर्वमागः तदर्धमग्रबाहल्यं सर्वेषां पर्ववच्छिरः । स्वस्वा(ग्रब)हलैस्तुल्यं पर्योचं बहलं तथा ॥ १२४ ॥
आयाममूर्ध्वलोष्टस्य द्वादशाङ्गुलमिष्यते । तविभागैकविस्तारं षड्यवं बहलं विदुः ॥ १२५ ।। अस्य मूलाग्रयोर्भेदं पर्व + चापि विद्यते । पुटाख्यगर्तकोणानां बहलं नीप्रलोष्टवत् ॥ १२६ ॥ आयामं वसुमात्रं स्याद् विस्तारमथ कथ्यते । युगाङ्गुलं पुटामूलं तदनं साधमात्रकम् ॥ १२७ ॥ मूलं तु गर्तकोटीनां सार्धमात्रमुदाहृतम् । चतुरङ्गुलमग्रं स्याद् व्यासमेवं प्रकीर्तितम् ॥ १२८ ॥ अष्टाङ्गलं कोणमूलमग्रं सार्धाङ्गलं विदुः । कूर(ड्य ? व्य)श्रकतुर्यश्रेष्वायामं वसुमात्रकम् ॥ १२९ ॥ विस्तारं द्यङ्गलं प्रोक्तं बहलं त्रियवं मतम् । नीप्रादीनां तु पञ्चानां भेदाः कीलादिकं त्रयम् ॥१३०|| वस्वतारार्धविस्तारं कीललोष्टमुदाहृतम् । तत्तत्तारार्धताराग्रं कृशाग्रमिति कीर्तितम् ॥ १३१ ।। तत्तत्तारार्धमूलं यत् स्थूलाग्रं तदुदाहृतम् । अथ दारुमयं लोष्टमुक्तलक्षणसंयुतम् ॥ १३२ ॥ कृतमेकाङ्गुलघनं सर्वेषां साधनं तु तत् । आमूलाग्रं विधातव्यं सूत्रं कूरस्य मध्यमे ॥ १३३ ॥ मूलात् तारार्धकं नीत्वा तिर्यक् सूत्रं समालिखेत् । तिर्यमूलाग्रयोगेन मध्याग्रेण युतं लिखेत् ॥ १३४ ॥