________________
मृल्लोष्टकरणम्] चतुर्दशोऽध्यायः ।
देवद्विजनरेन्द्राणां विशां च शकटैगजैः । दाहरणमिष्टं स्यादन्येषां नृभिराहरेत् ॥ ११४ ॥ प्रवेश्य शस्तद्वारेण शिल्पशालास्थले ततः। वालुकासश्चये दारुं शाययेत् पूर्वमस्तकम् ॥ ११५ ॥ न परावर्तनं कुर्यादष्टपञ्चत्रिमासतः। पश्चादिष्टप्रमाणेन भित्त्वा क्रकचकोटिना ॥ ११६ ॥ अन्तर्मुखं बहिःपृष्ठं प्रकल्प्यात्राङ्कमुन्नयेत् । मूले चाग्रे तथा कृत्वा त्रान्तरमुन्नयेत(?) ॥ ११७ ॥ मूले चाग्रे तथा कृत्वा तक्षणादि समाचरेत् ।
अथ मृत्स्ना । इष्टकालोप्टकरणप्रोक्ता (चो)न्मर्दिता मुहुः ॥ ११८ ॥ मृत्स्ना सा पूजिता तज्ज्ञैः सर्वकर्मसुखप्रदा ।
. अथ मृल्लोष्टकरणम् । इष्टकोक्तमृदा तद्वन्मुल्लोप्टकरणं स्मृतम् ॥ ११९ ॥ लोष्टानि कल्पयेत् सम्यक् तेषां लक्षणमुच्यते। । नीप्रलोष्टं तू लोष्टं तुर्यश्रं कूरलोष्टकम् ॥ १२०॥ यश्रलोष्टं कीललोष्टं कृशस्थूलाग्रलोष्टके । गर्तकोणं कोणलोष्टं पुटलोष्टं तथैव च ॥ १२१ ॥ लोष्टान्येकादशैतेषामायामादिकमुच्यते। नीप्रपट्टयास्तु विस्तारचतुरङ्गुलसंयुतम् ॥ १२२ ॥ आयामं नीप्रलोष्टस्य कीर्तितं लोष्टवेदिभिः । विस्तारं ध्यङ्गुलं कुर्याद् बहलं तारपादतः ॥ १२३ ॥