________________
६८ .
पूर्वभागः छेदे क्षीरस्रवे लब्ध्यै जलस्रावस्तु सौख्यकृत् । रुधिरस्रावो विनाशाय कर्तुश्छिन्द्यान्न तं तरुम् ।। १०४ ॥ सिंहेभवृषभा शकलं तस्य निपते भूमौ पूर्वापरायतम्(?) । शुभमूर्ध्वमुखं छेत्तुं पूर्वाग्रमतिशोभनम् ॥ १०५ ॥ सवल्कलं विशेषेण सर्ववृद्धिप्रदं विदुः। अधोमुखं दक्षिणोत्तरायतं तं विवल्कलम् ॥ १०६ ।। सर्वनाशकरं दक्षिणाग्रं चेत्तु विशेषतः । तदन्यथा निपतितं सर्व मध्यममेव हि ॥ १०७ ॥ सिंहमातङ्गवृषध्वनात(?) पतने तु शुभावहाः । हसिताक्रोशरुदितकूजितान्यशुभान्यतः ॥ १०८ ॥ तं वृक्षं वर्जयित्वान्यं गृहीत्वा शुभलक्षणम् । इन्द्रेशार्थददिक्पातमुखा (वृक्षाः) सुशोभनाः ॥ १०९ ॥ अन्यथापतितरत्याज्यो वृक्षः सः सर्वगर्हितः । वृक्षान्तरादौ सङ्गोऽपि विघ्नक्लेशकरोऽशुभः ॥ ११० ॥ पाते विहाय तच्छकुं यस्य मूलेन गच्छति । सोऽपि निन्द्यो विनकारी छिन्ना भिन्नास्तथैव च ॥१११॥ शुभच्छेदाग्रपतनदारुमूलाग्रयोः समम् । इष्टप्रमाणतश्छित्वा तुर्यश्रं वाथ तक्षयेत् ॥ ११२ ॥ स्तम्भमुद्दिश्य + + + शुक्लनाच्छाद्य वाससा। शकटादौ समारोप्य यथोद्देशं समाहरेत् ॥ ११३ ॥ १. स्य' ख. पाठः.