________________
दारु ]
चतुदर्शाऽध्यायः ।
I
+ + + + + + + 11 94 ||
खदिरः सालो मधुकः सबकस्तथैव शिशपश्चैव । तथार्जुनाकणौ (?) किरीणी च पद्मचन्दनौ वृक्षौ ॥ ९३ ॥ विशिखो धन्वनः पिण्डी सिंहो राजादनः शमी । तलकं च द्रुमाश्चैते स्तम्भे वृक्षाः समीरिताः ॥ ९४ ॥ निम्बासन शिरीषाश्च शाखाकालं च कर्चलः । तिमिसो लिकुचश्चैते होमा चैतेऽखिले योग्या भेद्यारछेद्याश्च भूरुहाः । वृत्ताकारश्च मूलाग्राद् बहुशाखो दृढान्वितः ॥ ९६ ॥ पुंवृक्षः स्यात् तरोः स्त्रीत्वं मूलस्थूलकुशाग्रता । मूलाप्रयोः कृशाल्पत्वं मध्ये स्थौल्यं च षण्डता ॥ ९७ ॥ मुहूर्तगर्भस्तम्भादीन् पुंवृक्षेणैव कारयेत् । शेषकर्मसु सर्वेषु स्त्रीवृक्षचैव शस्यते ॥ ९८ ॥
एवमन्विष्य तत्कर्म योग्य वृक्षं सलक्षणम् । लब्ध्वा दद्याद् बलिं विद्वान् विधिवच्छेत्तुमारभेत् ॥ ९९ ॥ अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः । युष्मभ्यं च बलिर्भूयात् तं मे दिशत पादपम् ॥ १०० ॥ शिवमस्तु महीपुत्रास्तुभ्यं देवाः सगुह्यकाः । कर्मेतत् साधयिष्यामि क्रियतां वासपर्ययः ॥ १०१ ॥ एवमुक्त्वा नमस्कृत्य पादपेभ्यो नमोऽस्त्विति । दुग्धं तैलघृतैः सम्यक् समाज्य परशोर्मुखम् ॥ १०२ ॥ सोपक्रामतु तं छेत्तुं यथाकामं वनस्पतिम् । किष्कुमात्रं तरोर्मूलं त्यक्त्वा छिन्या (त् त) दूर्ध्वतः ॥ १०३ ॥