________________
शिल्परले
पूर्वभागः अम्बष्ठाः सप्तपर्णाश्च कारस्करविकङ्कटाः । न्यगोधोदुम्बराश्वत्थप्लक्षशल्मलितिन्दुकाः ॥ ८२ ॥ नन्द्यावर्तश्च बदराः करवीराः कपित्थकाः। सर्पमारारिमेदाश्च पुत्रंजीवाः सडुण्डुकाः ॥ ८३ ।। तिन्त्रिणीपाटलाशोककर्पूरागरुरञ्जनाः । अर्काश्च वर्जनीयाः स्युर्देवमानुषधामसु ॥ ८४ ॥ असारशाखिनः सर्वान् वर्जयेद् गृहकर्मणि । ऋजवः सारवन्तश्च दृढाश्च चिरजीविनः ॥ ८५ ॥ वर्षवातातपसहा जलस्थलभवाश्च ये । तत्तद्देशोचिताः शस्ता ग्राह्याः स्युः शुभधामसु ॥ ८६ ॥ ये पूर्व वर्जिता वृक्षास्ते सर्वे देवतालये । शुभाय स्युर्विशेषेण मानुषाणामनर्थदाः ॥ ८७ ॥ प्रायशः क्षीरतरवो न मानुषगृहोचिताः। देवधामसु ते योग्याः सर्वेषां लिङ्कपाः शुभाः॥ ८८ ॥ शाकासनमधूकं च सालं सर्ज सचन्दनम् । पनसं देवदारुं च शंसन्ति गृहकर्मणि ॥ ८९ ॥ एकजात्या द्विजात्या वा त्रिजात्या वा महीरुहा । कारयेन्मन्दिरं राजा श्रियमिच्छन् महीयसीम् ॥ ९ ॥ अपत्रा निर्बणाः सर्वे ग्रहीतव्या महीरुहाः। पुण्याद्रिवनतीर्थस्था दर्शनीया मनोहराः ॥ ९१ ॥ सर्वसम्पत्समृद्ध्यर्थं भवेयुस्ते न संशयः ॥ ९२ ॥