SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दारु] चतुर्दशोऽध्यायः । __ युक्त सङ्घट्टितं युक्तया सुधा भवति शोभना। पूर्व यंशं करालं मधुकृतकदलीनालिकेराम्बुमाष. व्यूषं वाक्षाकषायस्तनजलधिगुलत्रैफलाम्भांसि वैवम् । वृद्धाग्न्यंशंक्रमेण स्फुटशशिधवलं चूर्णयुक्तं शतांशं पिष्टं सर्व यथावद् भवति परसुधावज्रलेपस्तथैव ॥ ७४ ॥ चतुस्त्रिद्वयमासान्तमुष्टिका युक्तिमर्दिता। श्रेष्ठमध्योत्तमा ज्ञेया सुधा सौधादिबन्धिनी ।। ७५ ।। अथ दारु। वास्तु तरवः पूर्व वक्ष्यन्ते ये सकोटराः। सवल्लिका लताश्लिष्टाः कीटजुष्टाः सकण्टकाः ॥ ७६ ॥ सत(त)पुष्पफलाढ्या वा नृदेवाश्रिताश्च ये। बहुपक्षिमृगैर्जुष्टाश्चैत्यमार्गश्मशानजाः ॥ ७७ ॥ वक्राः शुष्काश्च ये भग्नाः सर्पभूतादिसंश्रयाः। सनीराः क्षीरवृक्षाश्च वायुवानिविदूषिताः ।। ७८ ॥ दन्तिदन्ताहताश्चैव विद्युत्पातनिपीडिताः। देवालयसमुद्भूता नदीसङ्गमसम्भवाः ॥ ७९ ॥ तटाककूपमध्यस्था एते वाः सुखार्थिभिः। . . . पलाशाः कुटजा लोध्रा बिल्वपीलुशिरीषकाः ॥ ८० ॥ श्लेष्मातककदम्बाश्व कोविदाराः सकिंशुकाः। पथ्याक्षामलकाः पार्थः सुप्तिस्रवरणा (?) अपि ॥ ८॥ १. 'शु' ख. पाठः,
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy