________________
शिल्परत्ने
पूर्वभागः चिक्कणं केवलं काथं बडोदकमिति द्विधा। निश्छिद्रमिष्टमानेन क्षेत्रे त्विष्टकयाचिते ॥ ६३ ॥ पूर्वोक्तानां तु पञ्चानां विधातव्यं पृथक् पृथक् । तत्र तत्र तदुक्तेन द्रवेण परिमर्दयेत् ॥ ६४ ॥ केवलेनाम्भसा पूर्व पूर्वोक्तांस्त्रीन् प्रमर्दयेत् । क्षीरद्रुमामलाक्षाणां कदम्बाभययोरपि ॥ ६५ ।। त्वग्जलैस्त्रिफलातोयं माषजूषं च तत्समम् । संयम्य शर्कराशुक्तयोश्चूर्ण तत्काथवारिणि ।। ६६ ।। खुरसंघुट्टनं कृत्वा सावयित्वाथ वाससा । चिक्कणं कल्पयेत् तेनं बद्धोदमथ चोच्यते ॥ ६७ ॥ दधिदुग्धं मावजूषैर्गुलाज्यकदलीफलैः ।। नालिकेराम्रफलयोर्जलैश्चैतत् प्रकल्पितम् ॥ ६८ ॥ बद्धोदकं भवेत् तच्च समभागं नियोजयेत् । लब्धचूर्णशतांशं तु क्षौदमंशद्वयं भवेत् ॥ ६९ ।। आज्यं तु कदलीपक्कं नालिकेराम्बुमाषयुक् । क्षीराङ्गत्वकषायं च क्षीरं दधि ततो गुलम् ॥ ७० ॥ पिच्छिलं त्रिफलाम्भश्च त्र्यंशादिकमिदं क्रमात् । अंशवृद्या समायोज्य पूतपक्काम्बुशक्तितः ।। ७१ ॥ एकीकृत्य करालं च प्रक्षिपेद् दृढवेष्टितम् । . अतीत्यैकदिनं पचादथैव घनतां भवेत् ॥७२॥ नालिकेरस्य शाखाभिर्दण्डैः संताडयेन्मुहुः । अतीत्य दशरात्रं लीगुल्मासकलककैः ॥ ७३ ॥