________________
सुधा
चतुर्दशोऽध्यायः । बहिराच्छादयेत् सम्यङ् मृत्नया मृदु लेपयेत् ।। तन्मुखेष्वग्निमाधाय दशाहं पक्षमेव वा ॥ ५३ ॥ संस्कृस्य ज्वलने शान्ते समुद्धृत्येष्टकास्ततः । प्रक्षिप्य सलिले वर्षमष्टौ मासान् षडेव वा ।। ५४ ॥ उद्धरेदिष्टकास्ताः स्युर्विमानादिक्रियोचिताः । स्थूलमूलेष्टका स्त्री स्यादग्रस्थूला नपुंसकाः ॥ ५५ ॥ सर्वत्र समविस्तारास्तुल्याः स्युः पुरुषेष्टकाः । अथवा यमरेखाः स्युब्रजवश्चेत् पुमानथ ।। ५६ ॥ वक्राश्चेद् युग्मरेखाः सा स्त्रीलिङ्गाख्या प्रकीर्तिता । युग्मरेखास्त्वयुग्मं वा कर्णाभाश्चेन्नपुंसकाः ॥ ५७ ॥ ईषदुन्नतगं मूलं नतं वागमुदाहृतम् ।
अथ सुधा।
करालमुद्गीगुल्मासकल्कचिक्कणकाश्च याः ॥ ५८ ॥ चूर्णोपयुक्ताः पञ्चैते सुधाप्रकृतयो मताः । अभयाक्षबीजमात्राः शर्कराः सार्धचूर्णिताः ॥ ५९ ॥ ताः स्युः करालका मुद्गतुल्या याः क्षुद्रशर्कराः । सैव मुद्गीति कथ्यन्ते शिल्पशास्त्रविशारदैः ॥ ६ ॥ सार्धत्रिपादत्रिगुणकिञ्जल्कसिकतान्वितम् । चूर्ण तु शर्कराशुक्तयोर्यद् गुल्मासं तदुच्यते ॥६॥ करालमुद्गयोः पूर्वोक्तमानेन सिकतान्वितम् । चणकस्य च चूर्णस्य यत् पिष्टं कल्कमिप्यते ।। ६२ ॥