SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शिल्परने पूर्वभागः चिन्तां विधत्ते च पिपीलिकश्चेत् कर्तुः प्रवासं त्वथ माक्षिकश्च । कूर्मश्च रोगान् भयमप्युदग्रं वृष्टेविनाशं कुरुते विषश्च ॥४२॥ एवं परीक्ष्य बहुधा विहायाशुभलक्षणाम् । शुभां यथेष्टमानेन छित्वा पृष्ठं मुखं तथा ॥ ४३ ॥ मूलं चाग्रं च विज्ञाय अङ्कयित्वा नयेच्च ताम् ॥४४॥ ____ अथेष्टकाविधिः। चिक्कणा पाण्डराख्या च सलोणा च विगर्हिता। चतुर्थी ताम्रफुल्ला तु कर्मयोग्यमृदिष्यते ॥ ४५ ॥ तुषाङ्गारास्थिपाषाणशकराकाष्ठलोष्टकैः ।। वर्जिता सूक्ष्मसिकता ताम्रफुल्लेष्टकोचिता ॥ ४६ ॥ तां प्रक्षिप्यावटे मृत्स्ना जानुदन्नं जलं क्षिपेत् । आलोज्य पद्भिः संक्षोभ्य मर्दयेत् तां पुनः पुनः ॥४७॥ ततः क्षीरागरैरीषत्त्वक्क्काथत्रिफलाम्बुभिः । मर्दयेन्मासमात्रं तु तत्कर्मकुशलैनरैः ॥ ४८ ॥ इष्टकाः कारयेत् सम्यग् हादशाङ्गुलकायताः । तदर्धविस्तृताः प्रायो व्यासरामांशकोन्नताः ॥ ४९ ॥ त्रिपादोनास्ततो वा स्युः पूर्वसौम्यदिगग्रकाः । अधः पृष्ठाश्चोर्ध्ववक्राः कुर्युस्ते शिल्पकोविदाः ॥ ५० ॥ मूलाग्रादीन्यङ्कयित्वा धर्मे ताः परिशोषयेत् । अथ शुष्के सुलग्नादौ चुल्लीकृत्यानुमारुतम् ॥ ५१ ॥ तत्रेष्टकाः सुसन्दध्यात् सान्तरं क्रमशश्चिताः । काष्ठैः पलालभाराद्यैराचिताः स्युनिरन्तरम् ॥ ५२ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy