________________
शिलालक्षणम् ]
चतुर्दशोऽध्यायः ।
कासीत चोरी गोक्षीरे पिष्टा चालिप्य या शिला । त्रिरात्रमुषिता रक्ता स्याचेत् कर्मोऽत्र निश्चयः ॥ ३३ ॥
६१
मांसीकुष्ठगयारात्रिं त्रिफलावारिदाम्बुभिः ।
पिष्ट्वा तस्यार्दितं लिम्पेत् त्रिरात्राद् विकृतिर्यदि ॥ ३४ ॥ गर्भं तु कालकूटाख्यं विषं तत्र विनिर्दिशेत् । तस्य स्पर्शेन मृत्युः स्याद् यतोऽतस्तं न संस्पृशेत् ॥ ३५ ॥ मांसीरोगहयारिवारिद जलैः सार्धं पलानां त्रयं पिष्ट्रा वामविलोचनास्तनभुवा क्षीरेण तां लेपयेत् । लिप्त्वा सा च शिला यदि त्रिदिवसैर्वर्णान्तरत्वं व्रजेत् तत्र स्याद् विषमाशुनाशजनकं हस्तेन तं न स्पृशेत् ॥ ३६ ॥ तोये भीतिं दर्दुरे संविधत्ते गोधा राज्ञो नाशनं गोक्षयं च । कर्तुर्वशं नाशयेन्नागगर्भो मारीं तस्मिन् संविधत्ते सदेशे ॥ ३७ ॥ कर्तुर्मृति गर्भविनाशनं च स्त्रीणां विधत्ते सलिलाख्यगर्भः । खद्योतगर्भस्तु भयं च वह्नौ द्वैविध्यमुग्रं गृहगौलिकश्चेत् ॥ आखुर्भयं तस्करजं विधत्ते दुर्भिक्षमुग्रं कृकलासगर्भः । नाशं च वृष्टेरुपलाख्यगर्भः सस्यप्रणाशं च कुलीरगर्भः ॥ कुष्ठं विधत्ते कृमिरेव कर्तुचौर्य च कुर्यात् सिकता समन्तात् । शूलां विदध्यादथ वृश्चिकाख्यो द्रव्यस्य नाशं शफरो विधत्ते ॥ स्थानस्य नाशं कुरुते पतङ्गो व्याधिं षडङ्घ्रिस्तु बहूंच रोगान् । त कुर्यात् सुषिरो हि रोगं नाशं धनानामथ शकगोपः ॥
!