SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शिल्परते [पूर्वभागः रक्ते तु कृकलासः स्यात् खद्योतो मधुसन्निभे । मिश्रे पिपीलिका गर्भः शस्त्राभे धूसरे दृषत् ॥ २४ ॥ गौरे तु विमला धूम्र पतङ्गः सिकताथवा। नीलपीते भवेत् कूर्मो गर्भदोषान् वदाम्यतः ॥ २५ ॥ कपोतवणे गृहगौलिका स्यादागुणश्च (?) गर्भः कपिले प्रशस्तः। रक्ते प्रदिष्टः कृकलासगर्भः पाषाणगर्भो गुळसन्निभे च ॥ २६ । कुलीरगर्भो हरितालवणे स्याच्चम्पकाभे शबले कृमिश्च । गर्भस्य रूक्षे सिकतः प्रशस्तो वर्णे विचित्रे सति वृश्चिकश्च ॥ रक्ते विचित्रे शफरस्य गर्भः पीते विचित्रे पतगः प्रदिष्टः । गर्भः कुसुम्भप्रतिमे षडधिः भस्मोपमाने सुषिरं वदन्ति ॥ स्यान्मण्डले किंशुकपुष्पवणे वृत्रारिगोपश्च पिपीलिका वा । तत्रातसीष्पुपसमानवणे निपी(त)णे (2) सति माक्षिकाः स्युः॥ छेदने दृश्यते यत्र मण्डलं तत्र निर्दिशेत् । मण्डलं यादृशं दृष्टं तादृशं गर्भमेव च ॥ ३० ॥ एवंविधैापितलक्षणैश्च गर्भ विधायाविधिवत् परीक्ष्य। बाह्येऽप्यदृष्टे सति लक्षणेऽस्मिन् लेपं विदध्यात् प्रवदामि तत्तत्॥ ब्रह्माणं चक्रपाणिं कुसुमशररिपुं वैष्णवं पेषयित्वा - क्षीरेणाज्येन सम्यक् समवृतमधुना लेपयेत् तं शिलां च लिप्ता क्लिन्ना समस्ताद् भवति यदि शिला प्रोषिता चैकरात्रं जानीयात् तत्र गर्भ फणिपतिस्थवा वृश्चिको वाथ गोधा॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy