SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आयादिलक्षणम् ] . पञ्चदशोऽध्यायः । ध्वजेऽर्थलाभः कलहश्च धूमे सिंहे जयः श्वान अनन्तरोगः । वृषे तु लाभः खर आन्तदुःखं गजे सुखं वायस एव निष्फलः।। पश्चिमाशाननः श्लाघ्यो ध्वजः सर्वमुखोऽथवा । उत्तराभिमुखः सिंहो वृषः प्राचीमुखः शुभः ॥ २४ ॥ दक्षिणाभिमुखो हस्ती समस्ते वास्तु(कर्मणि) ॥ २५ ॥ मूर्ध्नि ध्वजो घ्राणपुटे च धूमो.. __ ह्यास्ये हरिः श्रोत्रदृशोः श्वसंज्ञः । । स्कन्धे वृषः पाणियुगे खरः स्याद् .. गजश्व हृद्यघ्रियुगे च काकः ॥ २६ ॥ तस्करो भुक्तिशक्ती च धनं राजाभिधं पुनः। षण्डं चैव विपञ्चैव ततस्तु चलसंज्ञकम् ॥ २७॥ समृद्धिरिति विख्यातान्यंशकानि नव क्रमात् । तस्कराख्यं विपत् षण्डं निन्दितं वास्तुपाठकैः ॥ २८ ॥ पापक्षेत्राणि निन्द्यानि लग्नान्यन्यानि सत्त्वतः । लग्नाष्टमं दुष्टयोगान् सकलान् परिवर्जयेत् ॥ २९ ॥ यत्र पूर्णशतायुः स्याद् वर्जयेत् तन्न संशयः । ध्वजे वृषे च वैश्यः स्याद् विप्रः सिंहे गजे तथा॥३०॥ धूमे च गर्दभे राजा वृषलः शुनि वायसे। अथान्यथा-- अष्टाहते रन्ध्रहतेऽथ शेषस्त्वायोऽथवात्रापि तिथिस्तु तिथ्या । नागे नवने व्यय एव दिग्भिर्भवेदिदं देशवशात् प्रवेश्यः॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy