________________
गर्भस्थापनम्। द्वादशोऽध्यायः ।
कृत्वा पात्रं तु रत्नादीन् निक्षिप्य विधिवत्तथा । यानि यस्य खचिह्नानि तानि तत्र समर्पयेत् ॥ ४६ ॥ एवं कृत्वा गर्भपात्रं विन्यसेदिष्टकाचिते। रक्षिते विधिवत् पूर्व गते शुद्धविलग्नके ॥ १७ ॥ चतुरश्रीकृताकारा वृक्षपाषाणनिर्मिता। पात्रद्विगुणविस्तारा पश्चाङ्गुलघनान्विता || ४८ ॥ प्रतिमाफलका या सा स्थाप्या तद्भाजनोपरि । तदुर्वे स्थापयेत् स्तम्भं संश्लिष्टचतुरिष्टकम् ॥ ४९ ॥ उग्रादीनां तु सर्वेषां तत्तत्स्थाने विशेषतः ।। गर्भमादौ बिनिक्षिप्य बिम्बं तदुपरि न्यसेत् ॥ ५० ॥ शिलेष्टकाचिते खाते संरक्षेद् वापिकादिषु ॥ ५० ॥ अमरनरविमानदारयोगाद्धिमूले
विधिवदविकलाङ्गं गर्भमादौ निधाय । तदुपरि विधिनास्मिन् योगमधिं च पूर्व
सकलविभवयुक्तं स्थापयेद् गर्भमूर्ध्नि ॥ ५१३ ॥ स्वस्य स्वग्रामकेरप्रभृतिनिजजनस्यापि संपत्प्रसूत्यै (?) गर्भाधानमितीदृशात्मनि मुखं संस्मार्य कर्ता स्वयम् । कारून् कर्मकरान् विभाव्य कनकैः सन्तोष्य रात्री गुरुं प्रासादं सुदृढं च तक्षकवरैरभ्युज्ज्वलं कारयेत् ।। ५२३ ॥
इति शिल्परने गर्भस्थापनं नाम
द्वादशोऽध्यायः ।