________________
[पूर्वभागः
५२
शिल्परले ताम्रभाजनविस्तारं पञ्चधा परिकीर्तितम् । रनिद्वादशपश्यष्ट चतुरङ्गुलमानतः ॥ ३५ ॥ उन्नतं तारतोज़ स्यात् तदर्ध वा त्रिपादकम् । पिधानस्योच्छ्रयं तद्वद् विस्तारसममायतम् ॥ ३ ॥ अथ वामसमोत्सेधमुत्तमं त्विति केचन । पादहीनं मध्यमं स्यादधमं त्वर्धतुङ्गकम् ॥ ३७ ॥ विस्तारस्य चतुर्थांशोऽप्युच्छ्यं कोष्ठभित्तिषु । त्रिभागैकं तु + + + पिधानोच्चमथापि वा ॥ ३८ ॥ त्रिचतुर्मात्रविस्ताराद् द्विद्व्यङ्गुलविवर्धनात् । पञ्चषड्रिंशदङ्गुल्यन्तं स्यात् पात्रस्य विस्तृतिः ॥ ३९ ॥ समोच्चं वाष्टषट्पञ्चभागोनं वा समुच्छ्रयम् । गृहीतोच्चत्रिभागैकं कोष्ठमित्युच्छ्रयं भवेत् ॥ ४० ॥ तत्तद्धाघ्रिविस्तारसमं वाष्टांशहीनकम् । त्रिपादं वा विशालं तवेलायाः प्राग्विवोच्छ्यः ॥ ११ ॥ तद्भित्तेस्तु धनं कुर्याद् यवैिित्रचतुष्टयः । अथ विस्तारतो भित्तेपनं विंशतिभागतः ॥ ४२ ॥ अम्बुराशिमृदा वाथ कुर्यात् तत्कोष्ठभित्तिकम् । येन यत् कर्म निष्पाद्यं तेन तद् गृहगर्भकम् ॥ ४३ ॥ तुर्यश्रं वाथ वृत्तं वा मण्डपाकृति वा पुनः । देवतालसमं गर्भपात्रं स्थाद् बलिपीठके ॥ ४४ ॥ समं त्रिपादमध वा तारं तदलमुच्छ्यम् । पीठस्य मध्ये संस्थाप्यं तत्तत्स्थानेऽपि वा पुनः ॥ ४५ ॥