________________
गर्भन्यासः द्वादशोऽध्यायः । कृत्वा कोष्ठचतुष्टयं प्रणिहितस्तुर्यश्रमुवींतले __ कोष्ठे वह्रिदिगाश्रिते पवनके पूर्वाग्रसूत्रे लिखेत् । सौम्याग्रे पिशिताशनेश्वरदिशि व्याप्ते च सूत्रे लिखेत्
कोष्ठेष्वेषु निधापयेच्च युगला द्वन्द्वस्थितष्विष्टकाः ॥२८॥ अष्टौ चेत् प्रथमेष्टकाश्च विधिवत् संस्थापयेद् बुद्धिमान् प्रादक्षिण्यविधानतः शतमखादीशान्तिमाशास्वपि । निम्न चोन्नतमभ्युदीक्ष्य च समं संस्थापयेत् ताः पुननिम्ने दुःखमथोन्नते च महती भीतिं विधत्ते नृपात् ॥.२९ ।। विन्यस्य चैवं पुनरिष्टकां च गन्धोदकैः संपरिपूर्य गर्तम् । कृत्वा प्रसूनानि परीक्षयेच्च निक्षिप्य चावर्तमथाक्षतानि ।। तद् दक्षिणावर्तमतीव शस्तं वामं तु निन्द्यं खलु दुःखदत्वात्। शाल्यादिभिः क्षेत्रजमृत्तिकाभिस्तन्मध्यगर्ने परिपूर्य रक्षेत् ॥ अथ गर्भकुर्यात् पात्रंताम्रक्लुप्तं सभं च तद्विस्तारं चायतं चात्र कक्ष्ये । अष्टाङ्गुलं चार्धसमुच्छ्रितं तत् पादोनमूचे विहितोच्छ्रयं च ।। हस्तायतं पात्रमथोत्तमं स्यात् त्रैराशिकेनोच्छ्यमत्र कल्प्यम् । तथा पिधानस्य समुच्छ्रयं च करोतु मन्त्री विहितं कोण ।। स्तम्भायामद्वादशांशोपपन्न
व्यासं व्यासाोच्छ्यं गर्भपात्रम्। तुर्यश्रं तच्छुद्धशुल्बप्रक्लुप्तं
स्वोत्सेधाझ्यूनोच्छ्योर्ध्वच्छदाढ्यम् ॥ ३४ ॥