________________
शिल्परत्ने
[पूर्वभागः पुमिष्टकाश्च सर्वेषां सर्वाभिप्रायसिद्धिदाः । करायतास्तदर्धाशविस्तृताष्टाङ्गुलोच्छ्रिताः ॥ १७३ ॥ . सुपक्का लोहितरुचः खण्डस्फोटादिवर्जिताः ॥ १८ ॥ नवसंख्यास्तु वा पञ्च कार्याः स्युः प्रथमेष्टकाः । अगुलैर्जगतीपतयनुष्टुब्भिश्च कृतायताः ॥ १९ ॥ क्रमात् तदर्धविस्तारा विस्तारार्धसमुच्छ्रयाः । उत्तमादिविमानानां निर्दिष्टाः प्रथमेष्टकाः ॥ २० ॥ : वस्वङ्गलं समारभ्य द्वियङ्गलविवर्धनात् । अष्टत्रिंशाङ्गुलं यावदायामं तु तथाविधम् ॥ २१ ॥ आयामार्धं विशालं तु विशालार्ध घनं तथा । नवाङ्गुलं समारभ्य द्वियङ्गलविवर्धनात् ॥ २२ ॥ नवत्रिंशदङ्गलान्तं दीर्घ तारादि पूर्ववत् । एकादिषोडशान्तानां भूमीनां क्रमशो भवेत् ॥ २३ ॥ . अष्टाशामिहिरैस्त्रिधायतितदर्धव्यासपादोच्छिता .
यद्वार्काहियुगैर्मिता ततिवितत्युत्सेधवात्योऽङ्गुलैः (?)। मार्तिक्यः पुटपाकलोहितरुचः शैल्योऽथवाष्टेष्टकाः
कर्तव्याश्चतुरूनिताश्चतुरुपेता वा गृहौचित्यतः ॥ २४ ॥ नवसंख्यामते पूर्वादीशान्तं मध्यतस्तथा । पञ्चपक्षे न्यसेत् पूर्वाद्युत्तरान्तं च मध्यतः ॥ २५ ॥ प्रादक्षिण्यक्रमादेव पूर्वाग्रं चोतराग्रकम् । शैल्यो वा ऋजवः सर्वा निम्नोलतविवर्जिताः ॥ २६३ ॥. अथाष्टपक्षे विन्यासक्रमः स्यादन्यथैव हि ॥ २७ ॥