________________
अथ त्रयोदशोऽध्यायः ।
अवास्तुकार्मणज्ञानम् । . मर्मादीनि निषिद्धानि वास्तुकर्मण्यनेकधा ।।
सन्ति संक्षेपतस्तानि द्विधा वक्ष्यामि सांप्रतम् ॥ १॥ नाड्यः स्युर्दश पूर्वसौम्यमुखगा वास्तौ स्थिताः कल्पिते. वेकाशीतिपदेषु कर्णनिहिते सूत्रे लिखेत् तद्गते । पश्चात् षट्त्रिपदस्थिता श्रुतिः + + पार्श्वस्थिता रजवो मर्मादीनि विभज्य वच्मि बहुधा तन्नाडिका रज्जुभिः ॥ २ ॥
धर्मा यशोवती भद्रा शुभदा कामदा शुभा। चित्रा सौम्या सुधा गौरी नाड्यः प्रागानना दश ॥ ३ ॥ अमृता वारुणी शान्ता ह्लादिनी ब्रह्मवादिनी । मनोरमा रतिः कान्ता ज्वालिनीशोत्तरानना ॥ ४ ॥ दक्षिणादिक्रमाज्ञेया तद्रज्जुयुतिषु क्रमात् । अष्टाभिः सङ्गतिर्यत्र नाडीरज्जुविमिश्रितैः ॥ ५ ॥ सूत्रैस्तत्र महामर्म ब्रह्मस्थानस्य कोणतः । प्रत्येकं दिक्षु षटकानि त्रिकाणां सन्ति पार्श्वतः ॥ ६ ॥ नाडीद्वयसमायोगान्युपमाणि तानि तु । चतुर्विशञ्चतुष्काणि नाडीमर्माणि सन्ति च ॥ ७ ॥ रज्जुमाणि रज्जुभ्यां चतुष्कं नवकं भवेत् । .. कोणस्तम्भगमर्मान्तं त्रिकं बाह्ये विनिर्दिशेत् ॥ ८ ॥ षट्कं च मर्मसंभेदं कृति षण्णां वदन्ति हि। पञ्चकं मर्मसन्धिश्च द्वे दे दिक्षु चतुर्वपि ॥ ९ ॥