________________
दिक्परिच्छेदः] एकादशोऽध्यायः ।
सशर्करैर्वालुकैश्च मृद्भिश्च दृषदादिभिः । दृढं प्रपूरयेच्छुद्धैर्जलैराप्लुत्य मुद्गरैः ॥ १४ ॥ मुसलै हच्छिरस्कैस्तु निहत्य दृढतां नयेत् । गजसञ्चारणं तत्र बहुशः कारयेत् पुनः ।। १५३ ।। एवं दृढतरं कृत्वा समीकृत्य जलादिभिः । दिगज्ञानप्रक्रियादक्षः स तत्कर्म समारभेत् ॥ १६ ॥
इति शिल्परत्ने खातविधिर्नाम
दशमोऽध्यायः ।
अथैकादशोऽध्यायः॥
अथ दिक्परिच्छेदः। अ(ब्जा?ब्धा)रादिसमीकृते क्षितितले संस्थाप्य शकुं समं
तन्मूलाहितसूत्रसंभ्रमणतः संलिख्य वृत्तं भुवि । प्रत्यग् प्रागपि वृत्तवर्तिनि ततश्छायाग्रके प्राङ्मुखं .
सूत्रं न्यस्य सुसाधयेद्धरिजलेशाशे ततश्चेतरे ॥१॥ . कृत्वा भूमितले समे करमितव्यासार्धवृत्तं च तन्मध्येऽकागुलशकुमत्र परिधिच्छायाग्रयोगेऽङ्कयेत् । पश्चाद् बिन्दुमनन्तरेऽपि दिवसे कृत्वा तयोः शङ्करत्र्यंशे प्राग्दिनजं प्रणीय दिशमिन्दान्धीशयोः साधयेत् ॥२॥ तोयसिद्धवसुधावलयान्तन्यस्तलम्बककृतार्जवशङ्कोः । यत्रमा विशति मुन्नति वृत्तं तौ दिशौ वरुणवासवयोः स्तः।। याति भानुरपमण्डलवृत्ते दक्षिणोत्तरदिशोरनुवेलम्। तेन सा दिगनृजुः प्रतिभाति स्यादृजुः पुनरपक्रममौ० ॥४॥