________________
शिल्परत्ने
[पूर्वभागः खात्वा क्षितिं तां पुरुषप्रमाणं जलान्तमश्मावधि वा सुलग्ने । पादोनमापूर्य विशुद्धवेद्या रात्रौ यजेद् दिश्यथ वास्तुमैश्याम्॥
युगाश्रे तूक्तमाने तु मानसूत्रं विधाय तु। तदन्याकृतिगेहानां ततस्तत्संभवक्षमाम् ॥ ५ ॥ मात्वा विधाय सूत्राणि वेदानं खातमाचरेत् । अथाधारशिलां न्यस्य गर्तेऽस्मिन् कल(शं) न्यसेत् ॥६॥
पद्मानि कूर्मयुक्तानि योगनालं ततोपरि ।। पीठस्य तारार्धततां तदर्धविस्तारयुक्तां प्रकरोतु मन्त्री । वा पादपद्मस्य ततां तदर्धतुङ्गामथाधारशिलां सुलमे ॥ ७ ॥ भाविप्रासादपीठादिमानेन परिकल्पयेत् ।
आधाराख्याशिलाकुम्भपद्मकूर्मादिमानकम् ॥ ८३ ।। स्तम्भोच्चस्य षडंशविस्तृततदष्टांशाधिकोच्चो घटः ।
पद्मोऽष्टांशसमुच्छ्रयोच्छ्यनवांशोनप्रथोऽष्टच्छदः । अष्टांशायततविपांशरहितव्यासायतार्बोच्छ्रयः कूर्मो नागयवाग्रतो द्विगुणमूला योगनालप्रथा ॥ ९ ॥ आधा(रीराख्य)शिलामध्ये निधिकुम्भं शिलाकृतम् । ताम्रजं वाथ विन्यस्य नानारत्नादिपूरितम् ॥ १० ॥ तदूर्वे दृषदम्भोज कर्णिकायां तथास्य तु । भाविदेवमुखं कूर्म विन्यसेद् विधिना निशि ॥ ११ ॥ तदूर्ध्वं रजताम्भोजगतं रजतकच्छपम् । तदूर्ध्वदेशे वर्णाब्जे वर्णकूर्म निधापयेत् ॥ १२ ॥ तत्पाददृषदोर्मध्यसमायाम प्रनालकम् । कूर्मस्योपरि संस्थाप्य कारयेद् गर्तपूरणम् ॥ १३ ॥