SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विमानकरणे खातविधिः] दशमोऽध्यायः । प्राच्यामैशेऽथवा मध्ये गौर्याः सूर्यस्य च श्रियः। मातृणां दक्षिणे धाम शास्तुः काल्याश्च नैर्ऋते॥ १२ ॥ षण्मुखस्य च वारुण्या ज्येष्ठायास्तदनन्तरम् । वायौ सौम्ये च दुर्गाया लोकेशानां स्वगोचरे ॥ १३ ॥ इन्द्रेशसौम्यमध्ये वा क्षेत्रपालनिवेशनम् । गोशाला दक्षिणे प्राच्यामनुक्तानां तथैव च ॥ १४ ॥ मन्दिरं कारयेत् तत्र युक्त्या (सर्व) महामतिः । उग्राः पराङ्मुखाः शस्ता नृणां सौम्यास्तु संमुखाः ॥१५॥ ईशादिप्रेतेशपर्यन्तदिवस्थाः प्रासादा ग्रामादिकेषु ध्वजोत्थाः । गोयोन्युत्थाः शेषदिक्संस्थिताः स्यु. स्तत्स्थाप्यारी चेष्यते तत्सयोनिः ॥ १६ ॥ इति शिल्परने देवालयस्थाननियमो नाम नवमोऽध्यायः। अथ दशमोऽध्यायः । अथ विमानकरणे खातविधिः । स्निग्धं चैव तथास्निग्धं द्विविधं भूमिलक्षणम् । चिक्कणा शर्कराळ्या वाप्यशक्यखननक्रिया ॥१॥ या सा स्निग्धा मही ख्याता तनुवालुकसंयुता । पुरुषाञ्जलिमात्रे तु दृष्टा तोयसमन्विता ॥२॥ अक्लेशात् खननं यत्र सा स्निग्धाख्या मही स्मृता। हस्तमात्रं खनेत् स्निग्धभुवमन्यत् तथाजलम् ॥ ३ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy