SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने [पूर्वभागः ग्रामादिकेषु निर्ऋतौ गणपार्ययोश्र . गृह्णातु भूमिमखिलेष्वपि मध्यतो वा ॥ २ ॥ परिघं तु त्रिदण्डादि यावद् द्वात्रिंशतिदण्डकम् । तदेव चाष्टदिशि च कर्तव्यं शिवमन्दिरम् ॥ ३ ॥ परिघाभ्यन्तरे वापि पैशाचिकपदे गुरुः । मानुषे तु पदे वाथ कर्तव्यं शिवमन्दिरम् ॥ ४॥ पैशाचिकपदे कुर्यादालयं तु पराङ्मुखम् ॥ ४३ ॥ मध्येऽजः स्वपदे धनेशतरणी प्रागीशमध्येषु मा शर्वाणीरमयोर्यमेन्द्रदिशि गोशालेन्दुरक्षोग्निषु । काली दण्डधराशरेन्दुषु जनन्यो + विधौ भारती स्थाहा क्षेत्रप ईश्वरेन्द्रशशिषु ज्येष्ठानिलाब्धीशयोः ॥५३॥ सूर्ये सूर्यो भृशे विष्णुस्तथाब्धीशे + + + + ॥६॥ + + + + + + + + सुग्रीवे शास्तुरालयम् । भृङ्गे जनन्यो ज्येष्ठायां वायौ चण्ड्यास्तु मुख्यके ॥ ७ ॥ कुबेरे च महाकाल्यां मातृणां च निशाकरे । अदितौ वास्तु चामुण्ड्याः शस्तमैशे शिवालयम् ॥ ८॥ निर्ऋतौ वा जयन्ते वा गोशाला च वनेऽथवा । देवतानां तु विन्यासमपरे जगुरन्यथा ॥ ९ ॥ तद्ग्रामपुरराष्ट्राणां स्यान्मध्ये ब्रह्मणो गृहम् । प्राच्यां वा पश्चिमे विष्णो मादीनां च सम्मुखम् ॥१०॥ पराङ्मुखं स्यादेशान्यां मानुषे शिवमन्दिरम् । स्वयंभूर्दैवतं चार्ष यत्र तत्रैव शोभनम् ॥ ११ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy