________________
ग्रामादिषु देवालयनियमः ] नवमोऽध्यायः । ४१ मुख्य वा सर्ववर्णानां शुभदं द्वारमिष्यते । महाद्वारकमः प्रोक्त उपहाराणि सन्ति चेत् ॥ २१ ॥ भृशे पूष्णि च भृङ्गाख्ये दौवारे शोषनागयोः। उदितावपि पर्जन्ये विन्यसेद् युक्तितः पुनः ॥ २२ ॥ यत्र स्थलेऽष्टमो राशिस्तत्र द्वारं न विन्यसेत् । यत्रोन्नतं ततो द्वारं यत्र निम्नं ततो गृहम् ॥ २३ ॥ द्वारं यत्र च विहितं तद्दिगधीशाधिपं च तद्धाम । एकतलं वा हितलं द्वितले द्विमुखं च निर्मुखं वा स्यात् ॥ द्वारस्तम्भन्यासो जन्मनि तस्योदितं च शिल्पिवरैः। .. आजन्मान्तं निम्नं मार्ग द्वारस्तारतोऽथ सदृशमपि ॥ २५ ॥ अब्धिगुणीकृततारे योनिः स्वीया भवेद् यथा तस्य । एतन्मण्डपतारं किष्कुमितं वा भवेच्च मात्रमितम् ॥ २६ ॥
इति शिल्परत्ने द्वारविन्यासलक्षणं नाम
___ अष्टमोऽध्यायः ।
अथ नवमोऽध्यायः। अथ ग्रामादिषु देवालयनियममाह - तीर्थान्ते तटिनीतटे जलनिधेस्तीरे सरित्सङ्गमे
शैलाग्रेऽद्रितटे वनोपवनयोरुद्यानदेशे तथा । सिद्धाद्यायतनेषु वा गुरुवरो प्रामे पुरे पत्तने
वान्यत्रापि मनोरमे सुरसमिज्यायै क्षितिं कल्पयेत् ॥ १॥ प्राचि प्रतीचि च हरौ निजदिश्युमेशे
वायौ निसुम्भजिति तारकजित्युदीच्याम् ।