SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (पूर्वभागः तजीवान्ता शिल्परत्ने छायानिर्गमनप्रवेशसमयार्कक्रान्तिजीवान्तरं क्षुण्णं स्वश्रवणेन लम्बकहतं स्यादङ्गलाद्यं फलम् । पश्चाद् विन्दुमनेन रव्ययनतः संचालयेद् व्यत्ययात् स्पष्टाः प्राच्यपराथवायनवशात् प्राबिन्दुमुत्सारयेत् ॥ गजदन्तादिभिर्वाथ खदिरादिभिरेव वा। अविकारवद्भिरत्यर्थमतितिग्मातपेऽपि च ॥ ६ ॥ यथेष्टपरिधिः शङ्कुस्तुल्यमूलाग्रको भवेत् । शिलातले वा भूमौ वा समायां स्थापयेच्च तम् ॥ ७ ॥ शकुमार्जवसंयुक्तं कल्पितहादशाङ्गलम् । तदनाद् भागपर्यन्तमानश्रुतिरिहोच्यते ॥ ८॥ सायनार्कभुजाजीवपरमक्रान्तितासिता । लम्बकाप्ताग्रजीवा स्याच्छायाकर्णहता हृता ॥ ९ ॥ त्रिज्ययाग्राङ्गुलं याम्ये विषुवहायुतं भुजा। सौम्याथ सौम्ये (का)लेऽपि न्यूनमग्राङ्गलं यदि ॥ १० ॥ शोषयेद् विषुवहायाः सौम्यो बाहुस्तदापि च । विषुवहां त्यजेत् तस्माद् वावुत्तरगेऽधिकात् ॥ ११ ॥ याम्य एव तदा बाहुस्तच्छायाकृतिभेदतः । मूलं कोटिः श्रुतिश्छाया त्रिभिस्यों भवेदिदम् ॥ १२ ॥ भ्रामयित्वाथ तत् व्यश्रं यावच्छायानुगा श्रुतिः। . कोट्या पूर्वापरे ज्ञेये बाहुना. दक्षिणोत्तरे ॥ १३ ॥ १. 'गो' २. टिश्रु' ख. पाठः.
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy