________________
शिल्परले
[पूर्वभागः
ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च । यथा विरि परिपूजयेद् गुरुस्तथैव वास्तुः परिपूजितव्यः || संपूज्य च प्राग् घृतपायसेन शर्वायस्कन्दमथो यजेत ॥ याम्येऽर्यम्णे समांसाज्यैस्ततः पित्तासृगामिषैः ॥ ६० ॥
३८
जम्भकाय तु वारुण्यां पिलिपिञ्छाय चोत्तरे । सान्द्रलोहितपुष्पान्नैर्बलिम प्रदापयेत् ॥ ६१ ॥ मांसौदनघृतापूपैरैशान्यां चरकीबलिः । मार्गे पीतेन मांसेन विदायै बलिमर्पयेत् ॥ ६२ ॥ पूतनायां तु राक्षस्यां दधिरक्तौदनैर्बलिः । क्षीरपित्तास्थिरक्तान्नैर्वायव्यां पापराक्षसीम् ॥ ६३ ॥ अथ देवासुरगन्धर्वयक्षपितरः सनागराक्षसकाः । पूर्वाद्यष्टदिशासु क्रमशः सपिशाचका ग्रहाः पूज्याः ॥ ६४ ॥ एतेषां भूतकूरान्नैर्बलिर्मण्डलबाह्यतः । पूर्वादिदिवष्टकेषु शर्वरकन्दादिके बहिः || १५ || प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः । सगन्धधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः ॥ ६६ ॥
इत्येव वास्तुपुरुषं ब्रह्माणं च सदैवतम् । संपूज्य च बलिं दत्त्वा तत्तन्नाम्ना प्रसादयेत् ॥ ६७ ॥
इति शिल्परले वास्तुपूजाविधानं नाम
सप्तमोऽध्यायः ।