________________
अथाष्टमोऽध्यायः।
'अथ ग्रामादीनां द्वारविधिः । प्रामादितत्तद्विस्तारेऽप्येकाशीतिपदे कृते । तत्चत्पदे महाद्वारसुपहारं च कारयेत् ॥ १॥ आदित्ये स्थापिते द्वारे पुत्रनाशोऽथ जायते । मित्रभङ्गस्तु सत्ये स्याद् भृङ्गे पथि निरुध्यते ॥ २ ॥ अन्तरिक्ष कृते द्वारे विनाशमधिगच्छति । पावके च कृते हारे म्रियते वेश्मनः पतिः ॥ ३ ॥ तत्र पूष्णि कृते द्वारे नश्येद् वारणपोषणे । वितथे स्थापिते द्वारे पत्युर्मरणमादिशेत् ॥ ४ ॥ गृहक्षतपदे द्वारे कृते सम्पद्विवर्धनम् । यमे द्वारे कृते सर्वनाशं च मरणं भवेत् ॥ ५ ॥ गन्धर्वे निर्मिते द्वारे सर्वकर्मविवर्धनम् । . भृङ्गराजे विपद् द्वारे मृगे सस्यविनाशनम् ॥ ६ ॥ नैर्ऋतौ मरणं विद्याद् दौवारिकपदे भयम् । सुग्रीवे सर्वलाभः स्यात् पुष्पदन्तेऽखिलो गुणः ॥ ७ ॥ वरुणे स्थापिते द्वारे मित्राद् वा चोरतो भयम् । ' असुरे च कृते द्वारे नित्यमाधि वदेद् भयम् ॥ ८ ॥ शोषणे च कृते द्वारे शुष्यते निखिलो गुणः । रोगे यदि कृते हारे पाण्डुरोगो भविष्यति ॥ ९ ॥ पवने स्थापिते द्वारे नरो वातेन पीड्यते । नागे च निर्मिते द्वारे शीघ्रं नागभयं भवेत् ॥ १० ॥ १. वदेत्' ख. पाठः.