________________
वास्तुपूजा ]
सप्तमोऽध्यायः ।
परेशपूजाथ घृताक्षताभिः पर्जन्य कस्योत्पलगन्धतोयैः । पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् ॥ सूर्यस्य पीतान्नवितानाभ्यां सत्यस्य साज्येन तथोदकेन । गोधूमकान्नेन भृशस्य पूजा कार्यान्तरिक्षस्य तु मांसमाषैः ॥ अग्निं स्रुवाभ्यर्च्य तथैव लाजैः पूषाख्यमिष्टा वितथं च हेम्ना । मध्वोदनाभ्यां च गृहक्षताख्यं मांसौदनाभ्यां यममर्चये ॥ गन्धर्वमिष्ट्वा कुसुमैः सुगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे | पूजा मृगस्याथ तिलैर्यवैव सिद्धं निर्ऋत्यै कुसरं यथावत् ॥ दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः । स्तम्बैः कुशानामथ पुष्पदन्तं तद्वज्जलेशं सितपुण्डरी कैः ॥ मध्वक्षताभ्यामसुराय पूजा शेषाय चान्नं घृतमिश्रितं स्यात् । नीवारकान्नेन तु रोगपूजा चाज्येन वायोर्धृतलड्डुकैश्च ॥ नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च । फल्लाटसंज्ञस्य समुद्रमन्नं सोमाय राज्ञे मधुपायसाज्ये ॥ ५४ ॥ भूयोऽक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नघृतैर्दिति च । माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशो विभावयेत् ॥ आपस्तु दुग्धेन तथापवत्सः पूज्यस्तु दमा वृतलड्डुकैश्च । सावित्रमिष्टाथ कुशैर्गुलान्नैस्तथा सवित्रे यजनं विदध्यात् ॥ हारिद्रमन्नं सघृतं तथेन्द्रजयाय शस्तं बलिकर्मणीह | रुद्राय मांसं विहितं त पक्कं मांसं तथा रुद्रजये त्वपकम् || तथापि पूज्याः सममार्य काद्यास्ते लड्डुकैलोहितशुक्लभक्तैः । तथैव माषैः सघृतैर्यथावत् स्वस्वप्रदेशे विधिवत् क्रमेण ॥ ५८ ॥