SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३६ शिल्परले ईशानायाः श्वेतकृष्णौ च शुक्लः श्यामो रक्तः श्यामकृष्णाच्छवर्णाः । रक्तश्यामौ शुक्लकृष्णौ च रक्तो दूर्वाश्यामः पीतकृष्णो जपाभः ॥ ४२ ॥ धूम्रो रक्तः शङ्खवर्णोऽमृताभः कृष्णः सन्ध्यामेघरुग् धूम्रकृष्णौ । हेमाभस्ते धूम्रमुक्ताजपाभाः श्यामश्वेतौ कृष्णरक्तौ क्रमात् स्युः ॥ ४३ ॥ सिन्दूराभास्त्वार्यकाद्याश्चतस्रः S श्वेतश्यामौ धूम्रकृष्णौ क्रमेण । सावित्राद्याः पीतरक्तौ घनाभौ [ पूर्वभागः मध्ये ब्रह्मा तप्तहेमप्रभः स्यात् ॥ ४४ ॥ शर्वस्कन्दः श्वेतवर्णोऽर्यमाह्वो रक्तः कृष्णो जम्भकोऽन्यः सिताभः । श्यामा धूम्रा रक्तवर्णा चरक्या द्याः स्युर्मन्दारार्तदाभाः क्रमेण ॥ ४५ ॥ तत्तद्वर्णपरागैर्वा चित्रिते मण्डलोत्तमे । मनोहरे गुरुपूजनामुपहारैः समाचरेत् ॥ ४६ ॥ (केलि ?) आश्रित्य मार्गे मतिमानथैषामेकं च वास्तुं परिपूजयेत् तु । अङ्गेषु तस्याप्यथ देवताश्च सङ्कल्प्य सम्यग् परिपूजयेत् ताः ॥ ४७ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy