SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ वास्तुपूजा] सप्तमोऽध्यायः । ब्रह्मा च नाभौ स्तनयोई ये च संस्थापितौ चार्यमहीधरौ च। कुक्षौ विवखांश्च तथैव मित्रः पादद्वये स्युः पितरो निविष्टाः ॥ ३२३ ॥ इन्द्रश्च मेढ़े वृषणहये च पश्चात् तथैवेन्द्रजयो निविष्टः। शिष्टा यथायुक्तिगतास्य देहे प्रत्येकमासां प्रवदामि पूजाम् ॥ अथा(न्योन्येषां) मते वास्तुनिकुब्जः प्राक्शिरो भवेत्॥३४॥ अधोमुखो महीपृष्ठे वक्ष्ये तत्स्थामरान् क्रमात् । तस्योत्तमाले विज्ञेया + + काभिधदेवताः ॥ ३५ ॥ सविता दक्षिणभुजे सवित्रः कक्ष उच्यते । आपश्चैवापवत्सश्च सकक्षे वामतो भुजे ॥ ३६ ॥ विवस्वान् दक्षिणे पार्श्वे वामपार्श्वे महीधरः । मध्ये ब्रह्मा स्वयं तहन्मित्रः पुंस्त्वेऽभिधीयते ॥ ३७॥ इन्द्रश्चन्द्रजयश्चैव दक्षिणे पाद ईरितः । रुद्रो रुद्रजयो वामपादे शेषा बहिः स्थिताः ॥ ३८ ॥ गृहे गहे मनुष्याणां विबुधानां तथैव च। ग्रामखेटपुरादौ वा कार्य स्याद् वास्तुपूजनम् ॥ ३९ ॥ कर्मादौ च समाप्तौ च मध्ये च शुभमिच्छता। सुमुहूर्ते विशुद्धेऽस्मिन् गोमयालिप्तभूतले ॥ ४० ॥ मण्डूकाख्यपदेनाथ तत्परेणाथवान्यतः। पिष्टैः प्रोक्तक्रमात् कार्य मण्डलं सुमनोहरम् ॥ ४१ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy